पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अचन्द्रिका | सान्वारम्भणीयमाथानम् इत्यापस्तम्बः । भावानं सान्वारम्भणयमिति विशिनष्ट | तस्मादस्त्य.ध. नस्यान्त्रारम्भया पाश्चाव्यवहितानन्तर्यरूपः संबन्धः । बौधा- यनोऽप्यन्वारम्भणीयां सूत्रयिवा सतिष्ठतेऽग्न्याधेयम् " इति सूत्रयति । तस्मादाधा- नस्यान्त्रारम्भण. यायाश्च संबन्धोऽवगतः । स च पै.र्णमास्याधनं विना न संभवति । तदे- तल्लिकं पौर्णमारयाधाने बौधायनानामिव्ययम् । अत एव काठके सूत्रितम् – “ आधानं चेत्पौर्णमास्यां पूर्वी तनूदेवताभ्य उपवसेदुसरामन्वारम्भणी यायै पर्वजे चेति " || अत एव पौर्णमास्यामादधानस्य सद्यस्कालामेव पौर्णमासीमभिप्रयन्ति बहवः । अनेने- ष्टिपूर्वमि युक्त इष्टिशब्देन दर्शपूर्णमासौ गृहीत्वा षड्यागसमाप्यनन्तरनेत्राग्निहोत्रं होतव्यम्। तथा च पौर्णमासं कृत्वाऽमावास्यावधि नास्त्यग्निहोत्रहो मारम्भ इति पौर्णमास्या नभी ना- धायान्वारम्भणीयां कृत्वा पौर्णमासमन्त्राधा या मिहोत्रारष्ट्यहनि याग इति बदन्तः परास्ताः | अत एव " संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थवत्" इति म्यायेनेष्टिपूर्व- भित्यत्रान्वःरम्भणीयेष्टिरेत्र माझा | अपि चेष्टिपूर्वाधान नास्ति सौत्रं प्रमाणमित्यभिलप- न्तोऽपि प्रत्युक्ता वेदितव्याः सादरम्भणीयमा धनमस्यापस्तम्बसूत्रादिष्टिपूर्वाधाननिति | प्रमाण यन्ति प्रमाणविदः । आपस्तम्बः – “ अमावास्थायां पनीयां वाऽऽधेय इति सामान्यतः सूत्रयित्वा पौर्णमास्तु पूर्वमित्यानुष्ठानं सूत्रयति । तथा च हृद्रदत्तोक्तो विरोधोऽपि नास्मान्रुणद्धि | अन्दपि पर्णमास्यां सद्य एव सर्व कार्यमिति विकल्पमेव सूत्रयांबभूवुः कल्पकाराः- सद्यो वा सद्यस्कालायां सर्वे क्रियते " इत्यापस्तम्बः । सद्यो वा सर्वे क्रियते " इति सत्याषाढः । “ सद्यो वा मातः " इति कात्यायनः । तस्य कर्काचार्यकृतं भाष्यमेवम् पौर्णमासे यह कर्तव्यमुक्तं तदेकस्मिन्ने चाहन्यग्न्यन्वाधानादिकर्मापवर्गान्तं भवति । अस्मिन्पक्षे प्रातः प्रतिपद्दिन एव सर्वमग्न्यन्वाधानादिकर्मापवर्गान्तं कार्यम् | न पूर्वेर- ग्न्यन्वाधानदिने प्रतिपदः प्रधानकालत्वात् । प्रधानकालस्य न्याय्यत्वात् । तत्र न्च व्रतोपायनीयाशनारण्याशनान्यतरागारशयनानि न भवन्ति । उक्तकालाभावाद्रागप्राप्ते