पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २१७ प्रसिद्धः । यद्यपि चाभ्यवसायवाची स्यात्तथाऽपि यद्यदा कार्यमुपस्थितं तस्यैव तदाऽभ्य- यसायो न च यावज्जीविकाः प्रयोगा युगपदुपस्थिताः । नायमेकः प्रयोगोऽभ्यस्तरूपः । पर्वकालिकं तु जीवनं दर्शानुष्ठानानिमित्तम् । तस्मिन्नागते नैमित्तिकं समाप्तं कृत्वा चरि- तार्थे पुरुषे पुनस्त. दृश: निमित्तत्रशान्नैमित्तिकमापतितमिति पुनः क्रियते । यथैकस्मिन्पुत्रे जाते वैश्वानरी निरुप्य पुत्रान्तरजन्मन्यपि पुनर्निर्वपति तादृगेतत् । तस्म प्रतिप्रयोग. मध्यवसायभेदात्तदङ्गमारम्भणीयाऽप्यावर्तेतेति तसिद्धान्तसिद्धिः | तस्मादेवं व्याख्यायते- किं प्रथमस्याग्न्यन्वाधानात्मकस्य पदार्थस्याङ्गमियमुत दर्शपूर्णमासःवारभमाणस्य प्रथमं प्रत्रर्तमानस्य पुरुषस्याममिति । तत्र— पुरुषार्थत्त्रपक्षेऽपि फलक्लृप्तिः प्रसभ्यते । तेनान्वाधानशेषः स्यात्स ह्यारम्भोऽनयोर्यतः || तस्याऽऽवृत्तौ तदङ्गत्वादेषाऽप्यावृत्तिमश्नुते । प्रधानवशवर्तित्वादेवं प्राप्तेऽभिधीयते ॥ न खल्त्रारम्भशब्देन पदार्थः कश्चिदुच्यते । यदेव ह्यप्रवृत्तस्य कर्तुराद्यप्रवर्तनम् || तत्रायं वर्तते शब्दस्तद्योगात्त पदार्थधीः । आरप्स्यमाणशब्दस्तःकर्तुः श्रुत्यैव वाचकः ।। लट्प्रस्ययोऽपि श्रुत्यैष तादर्थ्यस्याभिधायकः । आद्या प्रवृत्तिरेकैव बह्व्यो नैकस्य कर्मणः ॥ प्रथमप्रवृत्तिविषयतया ह्यन्वाधानमनेन प्रतिपाद्यते न श्रुया । न च श्रुतिसंभवे लक्षणा युक्ता | तस्मान्नाग्न्यन्वाधानसंबन्धः । दर्शादिकर्तुः पुरुषस्य शानचाऽभिहितस्य संस्कारिकेयमारम्भार्थतया लट्प्रयथेन क्रियार्थायां क्रियायामुपदे विहितेन प्रतिपाद्यते । अतो न पुरुषार्थत्वेऽपि फलंकल्पना । न चैकस्यैव कर्मणो बह्व्यः प्रथमप्रवृत्तयः संभ- वन्ति । किं वेकैव । ननु द्वितीयादीनपि प्रयोग नसावारमत एव | सत्यम् । प्रयोगानारभते न तु दर्श- पूर्णमासावारभते । दर्शपूर्णमासारम्भाङ्गं चेयं प्रथमप्रवृत्तिश्चाऽऽरम्भः । न च द्वितीयादि प्रयुञ्जानः प्रथमं प्रयुत इति शक्यते वक्तुम् । तस्मात्तदारम्भाङ्गत्वात्तस्य चाऽऽवृध्यभा बादारम्भणीया नावर्तते । " तस्यां तु स्यात्मयाजवत् ॥ ६ ॥ न वाऽङ्गभूतत्वात् ॥ ७ ॥ एकवा क्यत्वाच्च " ॥ ८ ॥