पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ २ पौर्णमास्यां सॆष्ट्याधानम् । ३ ततोऽन्त्रारम्भणीया | ४ ततः पूर्णमासान्वाधानम् । ५ सायं तस्मिन्नेवाग्नौ दशहोत्राद्यग्निहोत्रहोमः । ६ प्रतिपदि प्रातरग्निहोत्रम् | ७ त्वतः पूर्णमासयागः । विवृणोति तदप्यत्र प्रसङ्गात्प्रदर्शयामः- अग्निहोत्र चन्द्रिका | स्मृतस्योपेक्षानर्हत्वं प्रसङ्ग इति न्यायः । सेयं ( अन्वारम्भणीया ) पुरुषार्था न कर्मार्था श्रुत्यादीनामभावात् । दर्शपूर्णमा- मासावारप्स्यमान इत्यनेन च कर्मसंबन्धो वक्तुं न शक्यते । निमित्ततयाऽधिकारि विशे षणत्वेनोपक्षया दुद्देशकं न भवितुमर्हति । तस्मादनङ्गं तयोरन्वारम्भणीया । तथाऽपि तत्संबन्धपुरुषसंबन्धात्तयोरेवाधिकारित्वेन पुरुषं संपादयतीति युक्तमुक्तम् । अतो दर्शपूर्ण- मासावृत्तौ विकृतिषु च न पुनः पुनः कार्याऽतिदेशाभावात्कार्यसंवन्ध्यतिदिश्यते न पुरु- पार्थसंबन्धमपीति वृत्तिः । - इष्ट्यावृत्तौ मयाजवदावर्तेताऽऽरम्भणया | सकृद्वाऽऽरम्भसंयोगादेकः पुनरा- रम्भो यावज्जीवप्रयोगात् । ( जै० पू० मी० ९ | १ | ३४ | ३५ । ) दर्शपूर्णमास प्रकरणेऽन्वारम्भणीयाऽऽम्नाता - - उच्यते- आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमानः सरस्वत्यै चरुं सरस्वते चरुमिति | सा किं दर्शपूर्णमासावृत्ताव वर्तेतीत सक्कदेवाऽऽदो स्यादिति संशयः । आवृत्तौ हि प्रधानानामङ्गावृत्तिरसंशया । दर्शाद्यङ्गमियं तस्मादावर्तेत प्रयाजवत् ॥ - आरम्भद्दारकं त्वेतदङ्गं साधारणश्च सः । तस्य साधारणत्वेन साऽपि साधारणी भवेत् || आरप्स्यमानसंयोगादारम्भाङ्गमिष्टर्न साक्षादर्शपूर्णमासाङ्गम् । आरम्भश्चेदं मया कर्तव्य- मित्यध्यवसायः । स च सर्वप्रयोगाणां साधारणः । सर्वो ह्यगीनाधायैव मध्यवस्पति याव- ज्जीवं मया दर्शपूर्णमासौ पर्वणि पर्वणि कर्तव्याविति । तस्मादारम्भसाधारण्यात्तदङ्गभूताऽ न्वारम्भणीयाऽपि साधारणी न प्रतिप्रयोगमावर्तनीया । एवं वृत्तिकारमतेनाधिकरणं व्याख्याय तत्रापरितोषाद्वयाख्यान्तरं भाष्यकारेण कृतम् । कस्य हेतोरपरितोषः । नाभ्यवसायवचनोऽय ऽयमारम्भशब्दः | प्रथमप्रवृत्तियाची हि लोके