पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २१३ सथे कुर्यादथेतरदिष्ट्यहान कुर्यादिति बौधायनः । चतुहतारः सारस्वत होमा- वित्येतदुपवसथे कुर्यादथेतरदिष्ट्यहाने कुर्यादिति शालीकिचतुर्होतारमेवोपव- सथे कुर्यादथेतरदिष्ट्रयहनि कुर्यादित्यौपमन्यवः सर्वमेवैतदिष्ट्यहाने कुर्यादि- त्यौपमन्यवीपुत्रः । ( द्वैध० सू० २० | १८ ) तदेतत्सर्वस्मिन्नालाच्यमान एवं बौधायनानां पौर्णमास्याधाननिर्णयः- -- ( १ ) चतुर्दश्यामुपवासाद्युतक्रम्य ब्रह्मौदनान्तं कृत्वा पौर्णमास्यामनी नाधाय चतुहर्होतारं सारस्वतौ होमौ हुत्वाऽन्दारम्भेष्टि समाप्याग्निहोत्रहोम कृत्वा प्रतिपदि प्रातरनिहोत्रं हुत्वा पौर्णमासयागान्वाधानाद्यारम्भः कार्य इति प्रथमो मुख्यतमः पक्षः । ( २ ) चतुर्होतारं सारस्वतौ होमावित्येव पौर्णमास्यां कृत्वाऽन्वारम्भणीयादीष्ट्यहनि प्रतिपदीति द्वितीयः पक्षः । ( ३ ) चतुर्होतृमात्रमुपवसथे कृत्वा प्रतिपदि सारस्वतहोमान्त्रारम्भणीयादि कार्यमिति तृतीयः पक्षः । ( ४ ) चतुर्होत्रादिसर्वमिट्यहनि प्रतिपद्येश् कार्यमिति चतुर्थः । अत्र चतुर्ष्वपि पक्षेष्वन्वारम्भेष्टिं विना नामिहोत्रारम्भ इति सुधीभिर्ज्ञेयम् । एवं बौधायनोक्तेषु चतुर्ष्वपि पक्षेष्वन्वाधानोत्तरं प्रथमाग्निहोत्रारम्भो नास्ति । एवं च केचन बौधायनसूत्रिणः स्वसूत्रमनालोचयन्तः स्वकपोलकल्पनया कथंचित्स्वसूत्रमवलो- कितं कदर्थयन्त: पारशाखिकसूत्रेण स्वसूत्रोक्तमर्थं कल्पनयाऽप्यप्राप्यमःणमपि हठात्प्रापयन्त- श्चतुर्दश्यामुपबाद्युपक्रम्य पौर्णमास्यां सेष्ट्पाधानमपत्रभ्यान्वारम्भेष्टिमिष्ट्वा पौर्णम समन्त्राघाय सायमग्निहोत्रं प्रारभन्ते ते सर्वे सूत्रविरोधादुपेक्ष्या एव । यद्येत्रमेतानि बौधायनसूत्राणि कथंचिद्भक्त्वा नेष्याम इति चेत् " स्वाध्यायोऽध्येतव्यः " झ्यादिविधिभिन्नेष्वपि स्वक- ल्पनां योजयित्वा सूत्रसामर्थ्य च भाष्यादिसंमतादर्थाद्विपरीतमेव वर्णयन्भवादृशो निर कुशः किं किं न कुर्यात् । किंतु धर्मजिज्ञासाधिकरणे कल्पसूत्राधिकरणे च सिद्धा- न्त्रितं स्वसूत्रप्रामाण्यं कथं स्वेच्छया व्याकुलयसीति परं पर्यनुयोगे समाधानं विभावय | तस्मात्पूर्वोक्तेषु चतुर्षु पक्षेषु प्रदर्शितो योऽर्थः स एत्रार्थो मुनिवचसामनुकूलश्चेत्यलं स्वमू- त्रोक्तविरुद्धाचारदोषाविष्करणेन ( ५ ) कठसूत्रमेवम् - पौर्णमास्यामादधानः पूर्वामुपोष्याऽऽधायाग्न्याधेयेष्टिभि- रिष्ट्वा जुहदग्निहोत्रमुपतिष्ठमानो वसति श्वोऽन्वारम्भणीयां पौर्णमासं चेति । इष्टिपूर्व मित्यत्रान्चारम्भेष्टिपूर्वमित्यपि व्याख्यो वैजयन्तीकृत् । “ आधानानन्तरमेव प्रारम्भार्थं या क्रियते साऽन्चारम्भणीया | या विष्टिर्मध्ये होमं कृत्वाऽऽरभ्यते सांऽऽवाना- दनु न भवतीति नान्वारम्भणीया |” इति । यामनु दर्शपूर्णमासावारभ्येते साऽन्वार- म्भणीयेत्यप्यर्थः संगच्छते । अन्यदेतन विस्मर्तव्यम् - बौधायनानां पौर्णमास्याधानार्थं न