पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ अग्निहोत्रचन्द्रिका | विहिताऽस्ति । अतस्तेषां पौर्णमास्यां यदि विहितं चित्रादि नक्षत्रं प्राप्नुयात्तदानीं पौर्ण- मासीशास्त्रार्थस्तैरालोचनीयः । अतः पर्वत्वेन पौर्णमासी तेषां गौणः कालः । नक्षत्रकाल एव तेषां मुख्यः कालः । तत्रापि रोहिणी नक्षत्रयुक्तामावास्या मुख्यतमः काल इति ज्ञेयम् । तत्रापि चित्रानक्षत्रादीन्यपि तेषां गौणान्येव । तत्र च सद्यस्कालत्वमेवैतेषां सर्वम् । तदे तत्सर्वं कर्मान्ने स्पष्टं सूत्रितं तत्पुरस्कुर्मः -- 66 " पूर्वयोः फल्गुन्योरुत्तरयोः फल्गुन्योश्चित्रायामिति सद्यस्कालान्येतानि भवन्तीति । अथात आर्तिज्यान्यग्न्याधेयानि व्याख्यास्यामो विपक्ष आपूर्य- माणपक्षे विपक्षेत्रपक्षीयमाणपक्ष आदधानो यावानत्रावकाशः स्यात्तमभि विदधीत | पौर्णमास्यां तु सद्यस्कालम् । विपक्षेऽपहियमाणपक्ष आदधानो नात्रावकाशः काङ्क्षणाय विद्यते सर्वमेवैतदहः सद्यस्कालं कुर्याच्चतुतार ५ सारस्वतौ होमावन्वारम्भेष्टिमिति || ( क० सू० २४ । १३ । ) 1 पौर्णमास्यां स्त्रित्यनेन शृङ्गप्राहिकया प्रदर्शयति सद्यस्कालत्वम् । आर्ताधानेऽमावा- स्याऽपि सद्यरक, लत्वेन विहितेत्यन्यदेतत् । अतोऽमावास्याऽनार्ताधान आर्ताधानेऽपि श्रुता । न तथा पौर्णमासी । पौर्णमासी तु केवलमार्ताधान एव श्रूयते । अतो न तस्यामनार्तैराधातुं शक्यम् । यदैवैनं श्रद्धोपनमेदथाऽऽदधीतेत्यन्यदेतत् । चित्रानक्षत्रं वार्ताधानं विनाऽपि गौणमेवेति न मुख्यः कालः | अपि च काम्याधाननक्षत्रं चैतत् । “ अपितु न खलु कामनियुक्तान्यग्न्याधेयानि भवन्ति " इत्युपक्रमादा पस्तम्ब- प्रभृतिभिरपि चित्रानक्षत्रं काम्पमित्युक्तम् । राजन्यस्य च यथाऽऽपस्तम्बः—“ चित्रायां राजन्यो भ्रातृव्यवान्वा " इति " चित्रा च क्षत्रियस्य " इति कात्यायनः । अत्रत्यश्च - कारो लाभकामार्थः । चित्रानक्षत्रमकामनियुक्तस्यापि भवति । नित्यत्वेन समाम्नातनक्षत्रेषु चित्रायाः समंभिव्याहारैः सृञ्यते । एतेनोक्तप्रमाणजातेन पौर्णमासी गौणः काल आर्तिज्या- धानोक्तत्वात् । अनेन प्रायश्चित्रानक्षत्रं पौर्णमास्यां समायातीति पौर्णमास्यपि गृहीता भवतीति कश्चिच्चोदयेत्तं प्रति ब्रूयात्कण्ठरवेणानुक्तत्वाद्गौण्येच पौर्णमासीति ज्ञेयम् । एयं च यदा चौपवसथ्येऽहनि पवमानहविर्निरुप्यान्वारम्भणीयां कृत्वा पौर्णमासमन्वा धाय परेऽहनीष्टिरनुष्ठीयते तत्पौर्णमासेष्टिपूर्वाधानं भवति । · ' अत्र सत्याषाढः -- आधानादनन्तरमेव प्रारम्मार्थं क्रियते साऽन्वारम्मणीया | या त्विष्टिर्मध्ये होमं कृत्वाऽऽरभ्यते साऽऽवानादनु न भवतीति नान्चारभणीया | इष्टिपूर्वाधा- नेऽप्यनन्तरभिष्टे: प्रतिपदि रात्रावग्निहोत्रारम्भः । एवं चेष्टिपूर्वाधानमित्यत्रार्थद्वयं सुनिष्पन्नं भवति । अन्वारम्भेष्टिपूर्वम् । पूर्णमासेष्टिपूर्वम् | चतुर्दश्यां कृतमाधानमन्वारम्भेहिपूर्वं भवति । पूर्णमासे कृतमाधानमय्यन्त्रशरमेष्टिपूर्व भवत्येव । पर सत्यापास्तु पूर्णमासान्याधान.