पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० अग्निहोत्रचन्द्रिका | “संस्कृते कर्म संस्काराणां तदर्थत्वात् " ( पू० मी० ५ | ३ | २१ ) । भाध्यम् -- माननः संस्कृष्ट कर्माणि वर्तेरन् । कुतः - संस्काराणां तदर्थत्वात् । संस्कारशब्दा एत अहवनीयादयः । संस्कारस्य कस्यचिदभावे नाऽऽहवनी यादिषु प्रतिपत्तिः स्यात् । तस्मा संस्कृतेष्वनिषु कर्माणीति | सूत्रार्थस्तु - संस्कृते पव मानेष्टिसंस्कृतेऽग्नौ कर्माग्निहोत्रादिकर्म | आहवनीयशब्दस्य संस्कारवाचितया संस्काराणां पवमानसंस्काराणां तदर्थत्वादग्निहोत्राद्यर्थत्वादिति । ननु तर्हि पूर्णाहुतेः पूर्वं हूयमानं तृष्णीमग्निहोत्रमपि मीमांसकानां मते न स्यात् । मैवम् । तत्तुं साक्षादेवाऽऽम्नायेनैव मीमांस्य निरणायि ब्रह्मवादिनो वदन्ति होतव्यमग्निहोत्रां ३ इति न होतव्या ३ मिति यद्यजुषा जुहुयात् । अयथापूर्वमाहुती जुहुयात् | यन्न जुहुयात् । अग्निः पराभवेत् । तूष्णीमेव होतव्यं यथापूर्वमाहुती जुहोति । नाग्निः पराभवति । इति । तस्मात्तृष्णीमग्निहोत्रं होतव्यमिति सिद्धम् । एतदाम्नायसिद्धम् । मीमांसकानां मते पूर्वोक्तरीत्या न होतव्यमित्यापनं तत्र का गतिः । ब्रूमहे । न ह्याम्नायविरुद्धं मीमांसक मतं भवति । सूत्रयामास हि जैमिनिस्तत्तूष्णीमग्निहोत्रं होतव्यमिति । यथा -- - अर्थवादो वाऽर्थस्य विद्यमानत्वात् " | ( जै० सू० ५ । ३ । २४ । ) भाष्यम् – अर्थत्रादो वा “ अग्निं वै सृष्टम् । अग्निहोत्रेणानुद्रवन्ति " इति । अर्थवाद एव कुतः—अर्थस्य विद्यमानत्वात् । विद्यमानो हि तत्र.न्य एत्राग्निहोत्रह|मः । कथं होतव्यमग्निहोत्रं न होतव्यम् । इति मीमांसा प्रानिर्दिष्ठैव | तस्य तूष्णींहोमस्य प्रशंसार्थोऽयमर्थबाद इति । तस्मात्तूष्णीमग्निहोत्रानुष्ठान बिरोधिनी जैमिनीयमीमांसा नास्ये- वेति विभावनयं बहुविद्भिः | अपि तु नित्याग्निहोत्रं पत्रमानेष्टीः कृत्वा होतव्यम् । इति जैमिनिमतं कैश्चित्कल्पकारैरपि सूत्रम् । तदेतदिष्ट्नन्तमाधानमिति जोघुष्यते मीमां- साप्रयोगशास्त्रचणैरिति । तदेतत्सर्वं " यदि विष्टयस्तनुयुः " इत्यत्र व्याचख्या वृत्ति- कृत् । तत्र मीमांसामतमभ्युपन्यस्याऽऽश्वलायनाचार्यमतमवीवृतत्तदेवानुमन्यते वृत्तिकृत् । वयं तूमयथाऽभ्युपगच्छामः । भगवत आचार्यस्य सूत्रप्रणयनादेव । तथा च. शतपथश्रु- तिकात्यायनसूत्राभ्यामव्ययमर्थोऽवसीयते । ताश्चाऽऽधानस्य तिस्रो विधा: सामवेदायसूत्र- कारेण लाट्यायनाचार्येण सूत्रिता:- " अग्न्याधेयान्तान् कुर्वते पूर्णाहुतिमाभिहोमभिष्टीरिति” ( ४ । १२।१३) द्राह्यायणोऽपीममर्थमेवानुमन्यते । भाष्यम् – अग्यधेियस्त्रान्तान् कुर्वतेऽव्ये पूर्णाहुत्यादि । केपांचित्पुर्णाहुत्यन्तम् । 66