पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २०९ सेमपूर्वाधानान्न कर्तव्यः। स्त्रसूत्रविरोधात् । अन्यच्च प्रायो बौधायनस्तैत्तिरीयं ब्राह्मगमति- क्रम्य न सूत्रयति तस्मादत्रापि यथाब्राह्मणं सुत्रितं सूत्रं तैनीतिक्रमितव्यम् । एवं हि श्रूयते तैत्तिरीयब्राह्मणम् – “पशवो वा एतानि हवी षि । एष रुद्रः । यदग्निः । यत्सद्य एतानि हवी षि निर्वपेत् । रुद्राय पशूनपिदध्यात् । दपशुर्यजमानः स्यात् । धन्नानुनिर्वपेत् | दनव- रुद्धा अस्य पशवः स्युः । दशमु रात्रिष्वनुनिर्वपेत् । संवत्सरमतिमा वै द्वादश रात्रयः । संवत्सरेणैवासमै रुद्रः शमयित्वा / पशूनवरुन्धे " इति । स्पष्टमिति भाष्यं नात्र संगृह्यने तंत्रतत्सर्वमालोच्यैव सूत्रयामास भगवानाचार्यः पूर्णा- हुत्यन्तमग्न्याधेयमिति । वयमप्येतत्सर्चमालोच्य निर्णयं कुर्मः । षोडशिग्रहग्रहणवद्विकल्प एव शातपथीयश्रुतिगोचरः । अन्यच्चाऽऽचार्यसूत्रम् – “यदि त्विष्टयस्तनुयुः " इति च सूत्रम् | तेन ज्ञायत आश्वलायनाभिप्राय: पूर्णाहुति हुत्वेष्ट्यकरणेऽप्यग्निहोत्रारम्भ इति । अत्र परा- क्रान्तं वृत्तिकृता परं तत्सर्वं मीमांसाशास्त्र गोचरमिति ज्ञेयम् । न प्रयोगशास्त्रकृतस्तदभि- प्रयन्ति । अक्षाभिहोमान्तमिति पञ्चमः प्रकारः । तदेतदक्षाभिहोमान्तमाधानं लट्यायनाचार्येण सामवेदीयमुत्रकारेण सूत्रितं चतुर्थ- ध्याये- “ हुतायां पूर्णाहुतौ यथार्थ: स्यात् । अभियुक्तत्र गत्वा तूष्णी- मुपविशेत् " । ( ४ | १० | २२ ) अयं च ब्रह्मण उपदेशस्तूष्णीमुपविशेदिति । अत्र भाष्यम्—–क्वचिदध्वर्यवोऽक्षाभिहोमं कुर्वन्ति । अक्षा नाम विभीतककलानि तद्यद्यक्षानभिजुहुयुः । तत्र तस्मिन्गत्वा तूष्णीमुपविशेदिति । इत्यवसितः पूर्णाहुत्यन्ताधा नविचारः । इष्ट्यन्तम् – “पवमानहवी षि सद्यो निर्वपेत् ” । ( आप० श्रौ० सू० ( (५। २१ । १ ) वृत्तिः - पवमानहवींषि नाम यस्मिन्नाधानं तस्मिन्नेत्र निर्भपेदिति त्रीण्यनन्तरं वक्ष्यमाणानि तानि सद्यः समानेऽहनि - । तानि त्रीण्येवम् — अपये पवमान पान पा यानये शुचय इति । इति प्रयोग स्वः । अत्यत्र सीमांतकानामपि विचार-

सा चैवम्---

सरणिः