पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ अग्निहोत्रचन्द्रिका | मीमांसकानां विरोधः समायाति तत्र प्रयोगशास्त्रमेव बलीन इति । तदप्यत्रानुसंधात- व्यम् । अथवा काम्पत्वेन एबमानहविषां निर्वापश्चेत्पूर्णाहुत्यैव तं काममवाप्नुयादिति काम्यपरत्वं न्यषेधि पूर्वप्रपश्चितेन ब्राह्मणेन । नित्यानि त्वपेक्षन्त एवेति वा । शतपथीयभाष्ये तु पवमानहविषामावश्यकतोक्ता परमुभयथाश्रुतिदर्शनाद्विकल्प एवात्राभ्युपगन्तव्यः । ननु विकल्पोऽष्टदोषदुष्ट इति । षोडशिग्रहग्रहणे या गतिस्तां स्मर । तत्राप्यसमाहितो भवांश्चे- व्यवस्थित विकल्पं विभावयतु । यथा - उदितानुदितहोमयोः । अव्यवस्थितश्चेत्सर्वेषां प्राप्नोति । व्यवस्थितश्चेत्कातीयानामेव विकल्पोऽन्येषां नित्यत्वं नान्तरीयकतया समापति • तम् | कातीयानां तु भगवान्कात्यायन एव विकल्पयामास- “ द्वादशाहान्ते तनूहवीषि निर्वपति मासे द्वितीये तृतीये षण्मास्ये संवत्सरे सद्यो वा नवेति " ( कात्यायनश्रौ० सू० ४ । २ । ४९ । ) अत्रायमर्थः~-आधानदिवसाद्वादशेऽहनि तनूहब पि अग्नये पवमानायेत्यादीनि सद्यो वा पूर्णाहुत्यनन्तरं तस्मिन्नेवाहन्येते सर्वे विकल्पाः । न वा निर्वपति । शाखान्तरेऽ ब्येते विकल्पाः सर्वथा निषेधं विना कालमात्रस्य स्मर्चन्ते । यथाऽऽपस्तम्बसूत्रे - - “ द्वादशाहे व्यहे त्र्यहे चतुरहेऽर्धमासे मास्मृतौ संवत्सरे वा " ( आप० श्रौ० सू० ५। २१ । २ ) इति । द्वादशाहान्त इत्यत्रान्तग्रहणात्सर्वत्रान्तग्रहणं संबध्यते । तेन द्वयान्ते त्र्यहान्त इत्यादि ज्ञेयम् । न्यायस्य समत्वात् । एतेनाऽऽपस्तम्बोक्तविकसोक्ता दिशन्देष्वप्ययमेव न्यायोऽ नुवर्तनीयः । प्रकृते तु नवेत्यस्यायमर्थः । अथवा तनूहबीष न निर्वपति पूर्णाहुत्यन्त- मेव करोति । ' तनूहवींषि ' इति अग्नये पवमानायाग्नये पावकाया नये शुचय इत्येषां संज्ञा । प्रवृत्तिनिमित्तं तु तैत्तिरीयैरेवं समाम्ना तमस्ति । तञ्चार्थवादे श्रूयते - ब्रह्मवादिनो वदन्ति | तनुवो वा वैता अग्न्याधेयस्य " ( तै० ब्रां० १।१।६।) एतावता तनूहविषां विकल्प एवं युक्त इति । यथा वा पशोरपि द्वथहकालता वाच. निकी सद्यस्त्वमपि वाचनिकम् । अत उभयोरप्यौपदेशिक वादविरोधाच्च विकल एवाभ्यु पगन्तव्य इति निर्विवादम् । तथाऽत्राप्यनुसंधेयम् । अत्रापस्ति सद्यो वा नवेति वाच निकमेवेति नोक्तो दषो विकल्याभ्युपगमे । बौधायनस्तु द्वादशसु व्युष्टासु गतासु तनूह- विषां निर्वापकालं सूत्रयां बभूव । ब्राह्मणेतु सद्यस्क.लं निन्दित्वा संवत्सर प्रतिमारूपासु रात्रिष्वतीतासु निर्वापं विधत्ते । तदेयनै दर्तव्यम् । तेषां पवमानहविर्निर्वापः सोमपूर्वाधान एव कर्मान्तसूत्रे सद्यो वेन्यनेनोक्त नान्यदाइतस्तैः सद्यो निर्वापो विना