पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | म्भणीयेष्टेः प्रागग्निहोत्रारम्भः कृतश्चेद्धोपूर्व भवति । तत्र पूर्वनिर्दिष्टव चष्मास्यायां सूत्रितमाधानं होमपूर्वनिति ज्ञेयम् । तथा नक्षत्रेषु कृतमप्यावानं होमपूर्वं भवति । पूर्णाहुत्यन्तमाधानम् । २०७ तदिदमाधानमस्ति वा नवेति संशयः । सर्वैरपि सूत्रकारैः पूर्णाहुन्यनन्तरं पवमान - हवी ५षि समाम्नातानि विद्यन्ते । अतः संशयस्तदपाकरणाय श्रुतिभव पुरस्कुर्मः । Y 1 “ पूर्णाहुति जुहोति तत्पूर्णाहुतिं जुहोत्यन्नादं वा एतमात्मनो जनयते यदनिं तस्मा एतद्द्भाद्यमपिदधाति । यथा कुमाराय वा जाताय वत्साय वा स्तनमपिदध्यादेवमस्या तमपिधाति । स एतेनानेन शान्त उत्तराणि हवी षि श्रष्यमाणान्युपग्मति तदाहुः । एतामेवाऽऽहुति हुन्वाऽथोत्तराणि हवी५षि नाऽऽद्रियेतैतयैव तं काममाप्नोति यमभिकाम उत्तराणि हवी पि निर्वपतीति " । (शतपथब्रा० २ | ५ | ९ ) इत्यत्रार्थवादेनोत्तराणि पवमानादीनि हवीषि न निर्धपैदिन्युक्तम् । न चायं काम्यः पूर्णाहुतेर्विषय इति वाच्यम् । तथा चम्पबमानहविषामपि कम्त्वं नान्तरीयकम् । यम- भिकाममुत्तराणीत्याम्नानात् । अप्रे उत्तरहविर्विधानं यथा - " तदु निर्वपेदेवोत्तराणि हवी षि परोक्षमित्र वा एतद्यद्दस्तदिमितीव " ( शतपथ ब्रा० २ ।५।९) न च वाच्यं पत्रमानहविर्निर्वाप एव श्रुयभिप्रायो लक्ष्यत एवावधारणादिति । पूर्वत्राप्येवकारस्य सत्त्वात् । ब्राह्मण एत्रकार सत्यपि विकल्पमेवाभिप्रयन्ति प्रयोगशास्त्रकृत आपस्तम्बप्रभृतयः । यथा तैत्तिरीयब्राह्मणे १ | ३ | १ | इत्यत्र । 66 न संभृत्याः संभाराः । न यजुः कार्यमिति " | इत्येवं पूर्वमुक्या " अथो खलु | संभूत्या एव संभाराः | कार्ये यजुः । पुनराधेयस्य समृद्धयै " ।। इति । सा० भा० – सिद्धान्तमाह | अयोशब्देन पूर्वपक्षी निवर्तते । एवं ब्राह्मण आश्रावितेऽपि प्रयोगशास्त्रकदापस्तम्बः कृताकृताः सुंभारा यजूंपि च भवन्तीति " तथा प्रकृतमिदमिति ज्ञेयम् । इति प्रयोगशास्त्रकृतां मते पत्रमाहव सर्वेषां विकल्पेन भवन्तीति ज्ञेयम् । मीनांकानां मतेन तु सर्वेषामपि पवमानहवींषि नित्यानी त्यलमनया मीमांसाप्रयोगशास्त्रकृतोः सूक्ष्मेक्षिकया । अन्यच्चाः-पत्र प्रयोगशास्त्रकूनां