पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २०५ धानयो,रैति मीमांसया निर्णीतं मतमेवानुकूलमिति मन्यामहे | मूत्रकारस्य तथैव प्रस्थानाच्च । न च वाच्यं भगवत अम्नायस्य तदनुसूत्रयत आपस्तम्बाचार्यस्य सोमपूर्वाधानमेव संम- तमिति । न ह्याम्नानमात्रेण कश्चिदप्यर्थोऽनुष्टातुं शक्यते । अप्रे च तेनैवाऽऽचार्येण सांनाय्य विषय एवं सुत्रितमस्ति - नासोमयाजी संनयेत्संनयेद्वा " इति । तस्मादुभयथाऽप्याचार्याणां वचनशैली दृश्यत इति विकस एव सोमपूर्वाधानस्येति युक्ततमः शोभनः पन्थाः | प्रामाणिक विकले नास्त्यष्टदोषदुष्टत्वम् । अथापि सोमपूर्वा- धानमेव गरीयःपक्ष इति वयं ब्रूमः | सोमो नित्यस्त्रिभिर्ऋणवाञ्जायत इत्यृणसंस्तवात् । तथा सोमान्तान्यज्ञाननुक्रम्य नैयमिकं ह्येतदृणसंस्तुतमित्यपि वसिष्ठादयः प्रत्यभिजानन् । कल्पकृताऽप्यग्नीनाधाय कर्मण्यारभते सोमावरानि यानि श्रूयन्त इति । गृहस्थस्या- प्याश्रमान्तरं प्रेप्सतोऽप्यावश्पकतयोपदेशात्तथा " वसन्ते. वसन्ते सोमेन यजेत " इति दर्शपूर्णमासवदभ्यासविधानात् । तथा सोमपथविच्छेदे प्रायश्चित्तत्रचनात् । तथा सर्वेषु ब्राह्मणग्रन्थेषु कल्पसूत्रेषु च निलैः समभिव्याहाराच्च । तस्मादपि नित्य एव सोमः । एवं हि भगवतो जैमिनेः सूत्रणम् - ब्राह्मणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगात् । ( ६ । २ । ३१ । ) वृत्तिः—सोमवेदाध्ययनप्रजोत्पत्तयो नित्या उतानित्या इति संदेहेऽनित्या नित्यबो- धकप्रमाणाभावादिति बहिः पूर्वपक्षे सिद्धान्तमाह - ब्राह्मणस्नेति । ब्राह्मणस्येति क्षत्रियवै- श्ययोर्लक्षकम् । सोमविद्याप्रजं नित्यम् । ऋणवाक्येन ऋणशब्दघटितवाक्येन संयोगात् । त्रयाकरणैर्ऋणी भवतीति दोषश्रवणात् । " जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवाञ्जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अमृणो यः पुत्री यज्वा ब्रह्मचारी " || इति श्रुतिवाक्यम् । एवं च सोमस्याऽऽवश्यकतयाऽनुष्ठातव्यः सोमः । स चाऽऽघा- नानन्तरं वा भवतु दर्शपूर्णमासेष्टिपशुचातुर्मास्यानन्तरं वा भवनु । अनुष्ठेय इति तु निर्विवादम् । तदेतत्सोमनित्यत्वं श्लोकयां बभूव वार्तिककृत् । तच्च संजग्राह पार्थसार- थिमिश्रः- वीप्सायुक्तो वसन्तो हि निमित्तत्वेन गम्यते । यावद्वसन्तं नियमः सोमस्यातोऽवगम्यते || यावद्वसन्तमभ्यासः कामस्यैवाथ नोद्यते । यजेतेतिपदेनैव प्राप्नोत्यभ्यासलक्षणा ||