पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | शावरभाष्यम् --सोमश्चैकेषां पुरो दर्शपूर्णमासयोः स्यात्कुत अग्न्याधेयस्य ऋतुनक्ष- त्रातिक्रमवचनात् । यः सोमेन यक्ष्यमाणोऽग्नी नादधीत नर्तु स प्रतीक्षेत्र नक्षत्रम् | इति । यः सोमयागं कर्तुमादधीत स न प्रतीक्षेनक्षत्रं नाप्यतुम् । तावत्येवाऽऽदधीतेत्या- नन्तर्यमुच्यते । इतरथ ऋतुनक्षत्रातिक्रमवचनमनर्थकं स्यादिति । अन्यदपि तत्रैव सूत्रयां बभूव - २०४ इष्टिरयक्ष्यमाणस्य तादर्थ्ये सोमपूर्वत्वम् । (५ । ४।९।) शा० भा० – इष्टिरयक्ष्यमाणस्य सोमेन निरभिसंधिक आधाने तदर्थत्वे तु सोमपू- र्वत्वम् । सोमार्थतायां त्वाधानस्य सोमपूर्वत्वं स्यादिति । तरेतत्सूत्रस्थं सोमपूर्वत्वं पदं यदैवैनं यज्ञ उपनमेदधाऽऽदधीतति श्रौतं पदं तदन्तर्गतानि च सर्वाणि प्रमाणभूतानि सौत्रत्रचांसि सोमपूर्वाधाने प्रमाणम् । तदेतत्सर्वं विचार्य सोमपूर्वाधानं नास्तीति मलपन्तः प्रत्युक्ता वेदितव्याः । ननु अन्यान्यप्येवंजातीयकानि प्रयोगशास्त्रकृतां बचांस्याकलयाम इति । तान्येवम्- " न दर्शपूर्णमासाभ्यामनिष्ट्वा सोमेन यजेत " इति भरद्वाजः । " तस्य नानुपक्रान्त योदर्शपूर्णमासयोराहार: " इति सत्याषाढः । " दर्शपूर्णमासाभ्यामिष्ट्वाऽन्येन यजेत " इति कात्यायनः । दर्शपूर्णमासाभ्यामिष्ट्वेष्टिपशुचातुर्मास्यैरथ सोमेन " इत्याश्वलायनः । यो दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन येजेत । (तै० ब्रा० ।) सत्यम् । परं नैतानि बचांसि पूर्वनिर्दिष्टप्रमाणजातं बाधितुमुत्सहन्ते । तुल्यबलत्वात् । तुल्यबलानां हि न झस्ति विरोध इति बलाबलाधिकरणे व्याचख्यावाचार्यः । अन्यत्राप्येवं सूत्रयामास -- विप्रतिषेधे परम् '" | ( पू० मी० १२ । ४ । ३९ ।) अयमर्थः - विप्रतिषेधे तुल्यबलयोर्विरोधे परमिष्टं स्यात् । - यत्र समानबलानां वचसां परस्परं विरोध: स्यात्तत्र यदिष्टं तत्कार्यम् । अन्यदपि तत्रैव सूत्रयां बभूवाऽऽचार्यः -- " शास्त्रस्था वा तन्निमित्तत्वात् " ( पू० मी० १ । ३।८।) 66 अयमर्थः - शास्त्रस्थां शास्त्रप्रतिपाद्या शास्त्रानुसारिणीत्यर्थः । विप्रतिपत्तिर्विशिष्टा www प्रतिपत्तिर्ज्ञानम् । बलीयसी । कुतः । तन्निमित्तत्वात् । शास्त्रस्य तन्निश्चायकत्वात् । तस्मादुभयथाऽप्यस्ति वचनजातमिति षोडशिग्रहणवदैच्छिको विकल्प एव सोमपूर्वाधाना-