पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २०३ भाष्यम् ––बसन्तादिष्त्रप्यनियमः सोमेन यक्ष्यमाणस्य । तथा च श्रुतिः - सोमेन यक्ष्यमाणो नर्तुं सुर्क्षेन्न नक्षत्रम् | ( स० i श्रो० ० ० ५ | ३ | २ । ) इति । सोमेन यक्ष्यमाणोतु पृच्छेन नक्षत्रम् इति । ( आश्व० स० २ । १ । १५ । ) देवत्रातभाष्यम् – सोमेन यक्ष मागो ज्योतिटोनेन यक्ष्यमाणो भवति स न च ऋतुं पृच्छेन च नक्षत्रं पृच्छेत् । यस्मिक निश्चिन्नक्षत्रे पर्वणि शैक्षाकाले व तदानानं क्वत्वा सोमेन यजेत । सर्ववर्णानामेतदविशेषवचनात् । श्रुत्यन्तरेऽप्येवम् । यदैवैनं यज्ञ उपनमेदथाऽऽदधीत सैवास्यर्द्धि: ' इति । सोमनिमित्त आधाने न पृच्छेन्न नक्षत्रमिति- वचनादन्यत्र ऋतुनक्षत्रे पृच्छादित्यर्थादपन्नं भवति । गार्ग्यनारायणवृत्तिः-—अचैत्र सोमेन यक्ष्य इति संकल्प य आघानमिच्छेस आधानस्य कालं नावक्षेत सोमोपक्रमकालमेवाऽऽदर्थ तेत्यर्थः । अयमप्याधानकालो मुख्य एव । ऋतुनक्षत्रनिरपेक्षवचनं पर्वणोरपि प्रदर्शनार्थम् । अस्य मूलं यददैनमिति सोमाधानस्य विधायकं न सोमस्य | तेन वसन्तसंबन्धित्वं सोमस्य न बाध्यने । इष्ट्यु. त्तरकालता तु बाध्यते सोमाधानयोरानन्तर्यविधानादिति । 1 सत्याषाढोऽपि विकल्नमभिप्रैति स्वसूत्रानुयायिनाम् । एकेषामिति सूत्रणात् । श्रौ० सोमेन यक्ष्यमाण आघानो नर्तु न नक्षत्रं सूर्भेदित्येकेषाम् । ( स० [० सू० ३ | १२ ) अत्र वैजयन्तीकृदिदं ब्राह्मणव्यतिरिक्त विषयमिति व्याचल्यौ | तत्तु तैत्तिरीयशःखाया- मविशेषेण श्रुतत्वाच्चिन्त्यं पूर्वोक्तवत्रातभःण विरोधात् । सत्यानां तु सोमपू धानं नास्ति । एवं हि तत्सूत्रम्--- तस्य नानुषक्रान्त योदर्शपूर्णमासयोराहार ( स० ० ० ७ । १ । ५ ) इति । श्री० १ । अत्र ज्योत्स्ना —तस्याग्निदोमस्यानुपक्रान्तथोरनारब्धयोः सतोराहारः प्रयोगो नेयर्थः । एवं ज्योत्स्नावैजयन्त्योर्चिचार्यमाणे चिन्त्यमाने च तसूत्रे श्रुतिमूत्रवरोध इति नूनं तथाऽकि विकल्प एव श्रेयानिति युक्तमुत्पश्यामः । अत्र जैमिनिराचार्य:- सोमश्चैकेषामग्न्याधेयस्यर्तुनक्षत्रातिक्रमच चनात्तदन्तैनानर्थकं हि स्यात् । ( १० मी० ५ । ४ । ६।)