पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 अग्निहोत्रचन्द्रिका | इष्टि होमपूर चेन्मत्राध्येयमेव ज्ञेयम् । तथ सोमपूर्वाधानमस्ति वा न वाऽऽम्नायेन बेहितमि यंत्र फेचन संशेरते | तत्संशयापाकरणाय प्रमाणसुपन्यस्यते - - " अयो खलु यदेवैनं यज्ञ उपनमेत् । अथाऽऽदधीत सैवास्यर्द्धिः " । ( तैत्तिरीयत्रा० १ । १ । २ । इति । ) -- अत्र सायणभाष्यम् – अन्येऽभिज्ञा एवमाहुः । खटु यस्मिन्नेव काल एनं पुरुषं सोमयज्ञः प्रामुयात्सोमयागं करिष्याम्यहमिति बुद्धिरुदियात्तदशनीमेवाऽऽदधीत । न तु नश्चत्रादिकं परीक्षितब्यम् । तैव सोमयागबुद्विरेवास्य पुरुषस्य नक्षत्रादिकृत्स्नविहितका डसमृद्धिरिति । “ सोमेन यक्ष्यमाणो नतु सूर्येन्न नक्षत्रम् " | ( आपस्तम्ब० सू० ५।३।३। ) वृचि:-

-- य अधानानन्तरं सर्वकर्मभ्यः प्राक्सोमाय दीक्षिष्यते स सोमानुरोधेनाऽऽ-

धानं कर्तुमृतुं नक्षत्रं च न सुन्नाद्रियेत । कथमु खल्वग्न्याधेये सोम इति ” । ( बौ० कर्मान्तश्रौ० सू० ९ । ) “ सोमेन वोपक्लृप्तसोम आधानस्य सोमप्राधान्यम् " | ( कात्यायनश्रौ ० सू० ७ । ११ । २ । ) भाग्यम् --उपक्कृतं सोमयागाय दक्षिणा घृतसोमादिकं द्रव्यं येनासा बुपक्लृप्तसामो यजमानः । अधानानन्तरं प्रथमं सोमेनेष्ट्वा ततोऽन्येन दर्शपूर्णमासादिना यजेत कुन आधानस्य प्राधान्यात् । सोमप्रयुक्तत्वात्सोमचिकीर्पया कृतत्वात्सोमाधान नोरानन्त- यश्रवणादित्यर्थः

1

" सोमेन यक्ष्यमाणो नतु पृच्छेन्न नक्षत्रम् " | ( आश्वलायनश्रौ० सू० T( २।१।) अत्र यक्ष्यमाण इति ऌडादेश: शानच | स च सोमस्याऽऽधानानन्तर्यमाह | यतो न कश्चिदयक्ष्यमाण· सर्वस्यापि सोमयागविधानात् । तस्मादाधानानन्तरं कर्मान्तरांव्यव- ध।भेन यक्ष्यमाण इति प्रतीयते । वाशब्दो व्यवस्थितविकल्वार्थः । य उपक्लृप्तसोमस्तस्य नियनेन सोमपूर्वत्वमिति । " यायाकाम्यमृतूनों सोमेन यक्ष्यमाणस्य " ( सांख्ययानश्रौ० सू० २।१।६।)