पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथाऽऽधानपद्धतिशेषः । अथेमामग्निहोत्रचन्द्रिकां पूर्वप्रणीताधानपद्धतरवशिष्टेन प्रकरणेन संयोग्य समापयामः । देवान्वा एष उपावर्तते य आहितानिर्भवति । ( श० ब्रा० २ | ४ | ११ | ) विज्ञायते च देवानां वा एषोऽन्यतमो य आहिताग्निः । (बौ० श्रौ० २/७) आधानमग्न्याधेयमित्यनर्थान्तरम् । उभयथा ह्याचार्याणां शैली लक्ष्यते । यथाऽऽपस्तम्बः—अग्न्याधेयं व्याख्यास्यामः । ( श्रौ० सू० ५ | १ ) आधानाद्द्वादशरात्रमजस्त्राः । ( आश्वलायनश्रौ० सू० २ | १ | ३५ ) अनन्तरमाधानादाहिताग्निव्रतानि ( आपस्तम्ब० सू० ५ | २५ / २ ) येन कर्मणाऽग्नय आधीयन्ते तदग्न्याधेयम् । अग्न्यगःरकरणादीष्टयन्तस्य कर्मसमुदा- यस्य संज्ञा | मन्थनमात्रस्य स्थापनमात्रस्य वा । तच्चाग्न्याधयं भगवताऽविच्छिन्नाध्ययनप- रम्पराप्राप्तेनापौरुषेयेणाऽऽग्नायेन विहितमतः सादरं बहुभिः संस्कारैरात्मानं संचिकीर्षुभि रवश्यमनुष्ठेयमित्याचार्याभिमतः पन्थाः । यतो नित्यमिदम् । नित्यानि हि कर्माण्यननुष्ठि - तानि सन्ति प्रत्यवायं जनयन्त्यतस्तदनुतिष्ठासद्भिरप्यवश्यं कर्मणां ज्ञानं संपादनीयम् । किमत्र प्रधानं किंचाङ्गमित्येवंरूपम् । तच्चाऽऽकरप्रन्थतो ज्ञातुं दुःशकमिति सूत्रता- व्यप्रमुखान्ग्रन्थान्पुरस्कृत्य सुशकं कर्तुमुद्युक्त इति क्षम्यतां मे धार्ष्यम् | अहो क्वायं श्रौतकर्मणां महोदधिः । यत्र शबराचार्यकुमारिलभट्टाचार्य प्रभृतयो मण्डनमिश्रादयो मत्स्या- यमानाः सन्तः परिप्लत्रनमभप्तन्ते । क्व चेयं मदीयालीयसी बुद्धिनौका | तथाऽपि तूष्णभाव एत्र न वरमिति जानानोऽहं प्रयतेऽनया पद्धत्या जनानालादयितुम् । तदिदं ग्रन्थोपक्रमनिदानम् | ये चाऽऽत्मानं नित्यसंस्कारैः संचिस्कर्षन्ति ते यथाकथंचित्कर्मा- ण्यनुष्ठायाऽऽत्मानं कृतकृत्यं मन्वते । तन्मा भूयथाकथंचिदनुष्ठानं किंतु यथाशास्त्र- मेवानुष्ठानं श्रेयस इति मन्वानोऽहमग्न्याधेयानुष्ठानक्रमं प्रस्तावचिनुमा रमे । तदिइमग्न्या- धेयं षड्विधमामनन्त्याम्नायाः । प्रयोगशास्त्रकृतोऽपि तथाविधमेव सूत्रयां बभूवुः । ताः षड्विधा एवम् — १ सोमपूर्वाधानम् । २ इष्टिपूर्वाधानम् । ४ पूर्णाहुन्यन्तम् । ५ अक्षाभिहोमान्तम् । २०१ ३ होमपूर्वाधानम् । तत्र प्रथमतः सोमपूर्वाधानं प्रमाणीकृत्य तदनुष्ठानक्रममार भामहे । सोमपूर्वाधानम् । सोमात्पूर्वमाधानं सोमपूर्वाधानम् | आधानोत्तरं यदव्यवहित मनुष्ठीयते तत्तत्पूर्वमि ध्यते । ६ इष्ट्यन्तम् । इति ।