पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० अग्निहोत्रचन्द्रिका | भूर्भुवः स्वः स्वाहा । यजमान: - प्रजापतय इदं न मम । श्वीः । अग्निहोत्रार्थविहरणोत्तरं दक्षिणाग्न्यनुगमनेऽपि स्त्रयोनेर्दक्षिणामिं विहृत्य तत्रैव दक्षि- णाग्न्यनुगमननिमित्तं सर्वप्रायश्चित्तं कुर्यात् । अध्वर्युः – लौकिकमाग्यं तृष्णीमुत्पूय स्रुत्रेण गृहीत्वा भूर्भुवः स्वः स्वाहा इति दक्षिणाग्नौ । यदा दक्षिणाग्निरनुगतो ज्ञातो भवति तदानी - मेव प्रायश्चित्तं कृत्वा प्रक्रान्तं कर्माऽऽरभेत । आहवनीहोमोत्तरमनुगतश्चेदक्षिणमिनीप्यु- पत्तिर्न च प्रायश्चित्तमिति सिद्धान्तः । १ उद्धरणस्य च यः कर्ता स एव होमस्य | २ यः सायं होमकर्ता स एव प्रातः । ३ पक्षहोमादौ कृते सति उदयास्तमयाभ्यां प्राक्प्रादुष्करणाभावेऽपि न प्रायश्चि तम् । प्रादुष्करणस्य च होमार्थत्वात् । तथाऽपि जायापतिभ्यां तदानीं संनिधातव्यम् । ४ येन द्रव्येण सायं द्रुतं तेनैव प्रातः । } नास्त्ययं नियमो यजमानस्य | अन्यान्यप्येवंजातीयकानि प्रायश्चित्तानि पूर्वनिर्दिष्टैतरेयब्राह्मणोक्तान्यनुसंधाय तत्र गुक्त प्रकारेण देवतानाम्ना पूर्णाहुतिं जुहुयात् । यथा – अस्नातोऽग्निहोत्रं जुहुयात् । सूत- कानं मानीयादित्यादि । - अग्निहोत्रकर्मण आरम्भादासमाप्तेर्वाग्यमलोप: स्याञ्चेतू- इदं विष्णुविचक्रमे त्रेधा निदधे पदम् । समूहळमस्य पांसुरे ॥ इति ऋचं जपेत् । अथवा- अतो देवा अवन्तु नो यतो विष्णुविंचक्रमे | पृथिव्याः सप्त धामभिः ॥ इति वा जपेत् । अध्वरेषु प्रमादादिना यदि यत्किंचित्कर्म प्रच्यवेत तदा तत्साफल्याय विष्णुं स्मरेदित्यमुमधं श्रुतिस्मृती अपि दर्शयतः । ते आह— - प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरण/देव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः ॥ यस्य स्मॄत्या च नामोक्त्या तपोयज्ञ क्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ इति । इति प्रायश्चित्तप्रयोगः ।