पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | श्रीः । आहवनीयहोमोत्तरं गार्हपत्यस्य दक्षिणाग्नेर्वोभयोर्वाऽनुगमने तदाहुत्योर्लोपः। तन्नि- मित्तं ' भूर्भुवः स्वः स्वाहा ' इति मन्त्रेणाऽऽहवनीये तूष्णीं लौकिकमाज्यमुत्यूय स्रुवेण गृहीत्वा जुहुयात् । यजमान: - - प्रजापतय इदं न मम । ततो होमसमाप्त्यनन्तरं गार्हपत्यस्य पूर्वोक्तप्रकारेण नाम गार्हपत्यानुगतप्रायश्चित्तोक्त प्रकारेण गाईपत्यमुत्पाद्य तपस्वतीष्ट्यादि कार्यन् । श्रीः । अध्वर्युः——भग्निहोत्रे विहृतेष्वग्निषु प्रयत्नं ज्वलितेषु समिधावादभ्यात् । तत्र मन्त्रः -- १९९ उद्दीप्यस्व जातवेदोऽपघ्ननिर्ऋतिं मम । पशुच मझमावह जीवनं च दिशो दिश स्वाहा || ( नारायणोपनिषत् १०।१ ) यजमान:- जातवेदस इदं न मम । अध्वर्युः -- मा नो हिसज्जातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि श्रिया मा परि पातय स्वाहा || ( ना० १० । १ ) आभ्यां समिधावाध्यात् । यजमान:-- जातवेदस इदं न मम । ततो लौकिकमाज्यं तूष्णीमुत्पूय स्रुत्रेण गृहीत्वाऽऽ हवनीये जुहुयात् । तत्र मन्त्रः- भूर्भुवः स्वः स्वाहा इति । यजामान: - - प्रजापतय इदं न मम । एवमेकस्मिन्द्वथोस्त्रिषु वा ज्वलितेषु खुवाहुतिरेकैव भवेत् । श्रीः । यदि दक्षिणाग्निमनुद्धृय भ्रमादाहवनीयं प्रणयेदुक्तमन्त्रेण विना वाऽऽहवनीयं प्रणयेत्तदा तमग्निं गार्हपत्ये समोप्याग्निबहिः प्रायश्चित्तं विधाय विधिवदाहवनीयं प्रणयेत् । तमग्निं गार्हपत्ये तूष्णीं समोप्य । अध्वर्युः – लौकिकमाज्यमुत्पूय स्रुवेण गृहीत्वा गार्हपत्ये | -