पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ अग्निहोत्रचन्द्रिका | यावज्जीविकं वा यद्व्रताद्युक्तं सूत्रकारेण तदपि भाष्यवृत्तिकृद्भ्यां मपश्चितत्वान्न तदर्थं वयं पृथग्यत्नं विधास्यामः । एवमग्निहोत्रं हुत्वा मन्थनेनाग्न्युत्पत्तिः । ततस्तपस्वतीष्टि स्थानीयां पूर्णाहुतिं पूर्वोक्तप्रकारेण जुहुयात् । श्रीः । - यजमानः – अग्निहोत्रमध्ये पूर्वाहुत्यनन्तरमुत्तराहुतेः पूर्वमाहवनीयानुगमन - निमित्तजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरमीत्यर्थमाहवनीयत्वेन हिरण्यं भकल्प्य हिरण्य उत्तराहुतिं होष्यामि । - अध्वर्युः – आहवनीयायतनेऽपराजितायां दिशि हिरण्यं निधाय तस्मिनुत्तरामाहुतिं हुत्वाऽनुमकम्पनदि पर्युक्षणान्तं कुर्यात् । दीदिही त्यादेर्लोपः । यजमानः – दावाग्निना गाईपत्याद्यग्निसंसर्गनिमित्तजनितप्रत्यवायपरिहार- द्वारा श्रीपरमेश्वरप्रीत्यर्थं संवर्गेष्टिस्थानीयां पूर्णाहुतिं होण्यामि । ततोऽध्वर्युयजमानौ प्राम्याग्निसंसर्गप्रायश्चित्तवपूर्णाहुतिं कुर्याताम् । श्रीः । अग्निहोत्रहविःप।कार्थमुद्धृतेऽग्नावनुगते गाईपत्यादुत्पाद्य पुनस्तत्र हविः पचेत् | ततः कुशेषूपसादनान्तं कृत्वा- यजमान:--हविःपाकार्थमुद्धृताग्न्यनुगतिनिमित्तजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ व्याहृतिहामं होष्यामि । अध्वर्यु:- लौकिकमाज्यं तूष्णीमुत्पूय स्रुवेणाऽऽदाय- भूर्भुवः स्वः स्वाहा । यजमानः-- प्रजापतय इदं न मम । ततोऽध्वर्युरग्निहोत्रं समापयेत् । श्रीः । अपोढाग्नेर्गार्हपत्यस्य च नाशे मन्थनमारभ्य तपस्वतीष्ट्यन्तं कृत्वा ततोकार निर्हरणादि- होमशेषं समापयेत् । अयं प्रयोगस्तु प्रागुक्तः । श्रीः । होमकर्ता — अपोढे वर्तमाने गार्हपत्यानुगमने स्वपोढैकदेशं गार्हपत्ये तूष्णीं निघाय तत्रैव लौकिकाज्यमुत्पूतं स्रुवेण गृहीत्वा- भूर्भुवः स्वः स्वाहा यजमान:-- प्रजापतय इदं न मम । इति हुत्वा सुहुतकृतः स्थेत्यादि सर्व कुर्यात् ।