पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनहोत्र चन्द्रिका | श्रीः । यजमानः – स्वमरणशब्दश्रवणजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरमी- त्यर्थं सुरभीष्टिस्थाने पूर्णाहुति होप्यामि । अध्वर्युः – अग्नये सुरभये स्वाहा । यजमानः – अग्नये सुरभय इदं न मम | शेषं प्रागुक्तपूर्णाहुतिप्रयोगेण समानन् । श्रीः । यजमानो होमकर्ता वा मृन्मम्यग्निहोत्रस्थाली भिन्ना चिच्छ्वा दिदशनाभिक्षिता चैत्तामप्सु निक्षिपेत् । तत्र मन्त्रः- -- १९७ भूमिभूमिमगान्माता मातरमध्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम् || इति । श्रीः । यजमानः—अपराह्णे गार्हपत्यप्रज्वलनसमये गार्हपत्यानुगतिर्दृष्टा स्याच्चेदस्तमयात्पूर्व मन्थनेनानुत्पन्नेऽग्नौ लौकिकमग्निमानीयास्तारपूर्व प्रणीय नित्याग्निहोत्रत्रदेवाग्निहोत्रं हुवा यावदग्न्युत्पत्ति पुनर्मन्थनेनानिमुपाद्य गार्हपत्यायतनस्थं लौकिकमग्निमायतनाद्वहिर्निक्षिप्य तस्मिन्नायतने मथितमग्निं निधाय तृष्णी गार्हपत्यायतनादाहवनीय मुद्धृत्य प्रणीय निघाय पूर्वोक्तप्रकारेण तपस्त्रतीष्टिस्थाने पूर्णाहुतिं जुहुयात् । समारूढानिमन्धने प्रायश्चित्तिर्नास्ती- त्युत्तरत्राप्यनुसंधेयम् । प्रातरुदयापूर्वमिति विशेषः । श्रीः । यजमानः– ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ मन्थनेनानेरनुत्पत्ति- निमित्तहोमकालातिपातभिया ब्राह्मणपाणौ सायमग्निहोत्रं पयसा होण्यामि । ब्राह्मणमाहवनीयत्वेन परिकल्प्य तस्य दक्षिणपाणि नित्याग्निहोत्रमन्त्रेण परिसमुह्य पर्युक्ष्य पाणेरुत्तरतः कुशेषु पयसः स्थाली सादयित्वोन्नयानीत्युक्त्वोन्नीय स्थालीम भिमृश्य समिधं स्रुचं चापरस्यां दिशि कुशेषूपसाद्य जान्वाच्य रजतां त्वेति पाणौ समिधमाधाय विद्युदसत्यप उपस्पृश्य नित्याग्निहोत्रवत्प्रधानहोमं हुत्वाऽथोत्तरामाहुतिं त्वाऽनुप्रकम्प्य कुशमूलेषु निमृज्य स्वधा पितृभ्य इसपोडबनिनीयाप उपस्पृश्योदडावृत्य भक्षयेत् । ततोऽभ्यात्ममपौ निनीय स्रुचं प्रक्षाल्य पञ्च पूर्णाः स्रुचो नित्यवद्धत्वा स्रुचं परिकर्मिणे प्रयच्छेत् । पुनः पूर्ववत्परिसमूहनपर्युक्षणादि नित्याग्निहोत्रवत्सर्वं कुर्यात् । एवमजकर्णे दर्भस्तम्बेऽप्सु च यथासंभवं प्रयोगः । एवमेव काष्ठे पृथिव्यां चानुष्ठेयम् । विहारधर्मलो- पादि भाष्यवृत्तिभ्यां समालोच्यानुष्ठातव्यम् । एवमेव ब्राह्मणपाण्यादिहोम आसंवत्सरं