पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोबचन्द्रिका | श्रीः । यजमानः – गाईपत्यायनीनां द्वयोर्वा मिथःसंसर्जननिमित्तजनितप्रत्यवाय परिहारद्वारा श्रीपरमेश्वरमीत्यर्थं विविचीष्टिस्थानीयां पूर्णाहुतिं होण्यामि । प्रयोगः प्रागेवाभिहितः । देवतेदानीं वक्ष्यते - - अध्वर्यु:- अग्नये विविचये स्वाहा । यजमानः—अग्नये विविचय इदं न मम । अन्यत्पूर्वोक्तपूर्णाहुत्या समानम् । गार्हपत्याहवनीययोर्मिथः संसर्गे तु - अध्वर्युः-- अग्नये वीतये स्वाहा । - यजमानः – अग्नये वीतय इदं न मम । शेषं पूर्वोक्तपूर्णाहुत्या समानम् । श्रीः । यजमानः- श्रौताग्नीना मग्नेरग्न्योर्वा लौकिकाग्निसंसर्जननिमित्तजनितप्रत्य- बायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं संवर्गेष्टिस्थाने पूर्णाहुतिं होष्यामि । पूर्वोक्तपूर्णाहुतिप्रयोगोऽत्रानुसंधेयः । अयं विशेषः- अध्वर्यु:- अग्नये संवर्गाय स्वाहा । यजमानः-- अग्नये संवर्गायेदं न मम | अन्यत्पूर्वोक्तपूर्णाहुत्या समानम् | - श्रीः । - यजमानः – गाईपत्यादीनां श्रौताम्नीनां वैद्युतानलसंसर्गनिमित्तजनितप्र- त्यवायपरिहारद्वारा श्रीपरमेश्वरमीत्यर्थमप्सुमदिष्टिस्थानीयां पूर्णाहुतिं होष्यामि । अध्वर्युः – अग्नयेऽप्सुमते स्वाहा । - यजमान:- अग्नयेऽप्सुमत इदं न मम । - शेषं प्रागुक्तपूर्णाहुतिप्रयोगेग समानम् । - श्रीः । यजमानः- द्विषदन्नभोजननिमित्त जनितप्रत्यवाय परिहारद्वारा श्रीपरमेश्वरमी त्यर्थ वैश्वानरेष्टिस्थाने पूर्णाहुति होप्यामि । अध्वर्युः – अग्नये वैश्वानराय स्वाहा । यजमान: – अग्नये वैश्वानरायेदं न मम । अभ्यःसर्वं प्रागुक्तपूर्णाहुतिप्रयोगेण समानम् ।