पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १९५ अग्न्याधेयप्रयोगस्वाधानपद्धतावुक्तः । पुनराधेयप्रयोगस्त्वमे वक्ष्यते । उभावपि तत्र तत्रानुसंधातव्यौ । अविहृतयोदक्षिणःग्न्याहवनीययोग हेपत्यानुगमनेऽग्न्याधेयं पुनरा धेयं वा न कार्यमिति शास्त्रीय पद्धत्या प्रादर्शि वृत्तिकृतेति न वयं तत्रापि लेखनी व्यापा- रयामः । किंतु भस्मनाऽरणी संस्पृश्येतो जज्ञ इति मन्त्रेण मथित्वाऽऽयतने निधाय यथाशा- स्नमग्निहोत्रं जुहुयात् । ततः पूर्वोक्तां तपस्वत्यादीष्टिस्थानीयां पूर्णाहुतिं जुहुयात् । श्रीः । यजमानः – समारूदाग्न्यरणीनाश निमित्त जनितप्रत्यवायपरिहारद्वारा श्रीपर- मेश्वरप्रीत्यर्थमग्नीनाधास्ये | अमीन्पुनराधास्य इति वा । अग्न्याधेयपुनराधेयप्रयोगस्तु पद्धतिपद्धतिशेषाभ्यामनुसंधातव्यः ॥ इति । श्रीः । यजमानः – सानावायतने पुनरग्निप्रणयननिमित्त जनितप्रत्यवाय परिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमग्निवदग्नीष्टिस्थाने पूर्णाहुतिं होष्यामि । पूर्णाहुतिप्रयोगस्तु प्रागुक्तोऽनुसंधषः । अयं विशेषः-- अध्वर्युः – अग्नयेऽग्निवते स्वाहा । - यजमानः-- अग्नयेऽग्निवत इदं न मम | शेषं पूर्वोक्तेन समानम् । श्रीः । यजमान:- गृहदाहनिमित्तजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरमीत्यर्थं क्षामवदिष्टिस्थाने पूर्णाहुर्ति होष्यामि । प्रयोगस्तु प्रागुक्त एव । - अध्वर्युः – अग्नये क्षामवते स्वाहा । यजमानः- अग्नये क्षामवत इदं न मम । शेषं पूर्वोचपूर्णाहुत्या समानम् । श्रीः । यजमानः-- अग्निहोत्राग्नेः शवाग्निसंसर्गनिमित्तजनितमत्यवाय परिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुचीष्टिस्थानीयां पूर्णाहुतिं होण्यामि । प्रागुक्तः प्रयोगोऽवगन्तव्यः । तत्रायं विशेषः-- अध्वर्यः -- अग्नये शुचये स्वाहा । यजमानः – अग्नये शुचय इदं न मम | अन्यत्मागुक्तपूर्णाहुत्या समानम् |