पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ अग्निहोत्रचन्द्रिका | स गायत्र्या त्रिष्टुभा जगत्याऽनुष्टुभा च देवेभ्यो द्रव्यं वह नः प्रजानन् ॥ इति । ततो गार्हपत्यादाहवनीयं तूष्णीमुद्धृत्य मणीय निधाय तमुपतिष्ठेत । उपस्थान- मन्त्रः प्रागुक्तः स एव । अग्ने सम्राळिषे० | संकल्पादिपूर्णाहुत्यन्तं प्राग्वदेवानुष्ठेयम् । ० ( ३ ) आहवनीये प्रियमाणे गार्हपत्यानुगमने सति दक्षिणाग्निमन्वाहृत्य गार्हपत्यभू. तादाइवनीयादन्यमाहवनीयं प्रणयेत् । यतः प्रणयति स गार्हपत्य: " ( आ० श्रौ ० सू० ७ । ७ । ३ ) इति सूत्राद्गार्हपत्यभूतादिति लब्धम् । अतो प्रियमाणाहवनीयादे- वाप्रेऽष्टासु प्रक्रमेष्वाहवनीयं प्रणयेत् । ततः प्रभृति स एव विहारः संपद्यते । अतोऽ- ग्निहोत्रादिकं तस्मिन्नेव विहारे भवति । ततोऽनन्तरोक्तप्रकारेण पूर्णाहुतिरनुष्ठेया । ( ४ ) आहवनीये प्रियमाणे गार्हपत्यानुगनमने सहभस्मानमाहवनीयं दक्षिणेन बिह.रं नीत्वा गार्हपत्यायतने निधाय ततः पूर्वस्यां दिश्याहवनीयमुद्धरेत् । ततोऽनन्तरोक्त- प्रकारेण पूर्णाइतिरनुष्टेयेति प्रयोगशास्त्रकृतः । श्रीः । -- यजमानः – अग्निहोत्रार्थनणीताहवनीयस्य प्राग्घोमादनुगमननिमित्तजनित- प्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमग्न्युत्पत्तिपूर्वक पूर्णाहुतिं हांष्यामि । इति संकल्स्य बहुविद्राह्मणं वृणुयात् । वृतो बहुविद्राह्मणः सायं · गार्हपत्यादाहवनीयं देवं त्वेति मन्त्रेणोद्धृत्य परिकर्मिणा दर्भेर्हरण्येऽग्रतो ह्वियमाण उड्रियमाण इत्यनेन मन्त्रेण प्रणीयामृताहुतिमित्यनेन निदध्यात् । ततः कर्ता प्रक्रान्तं कर्म समाप्य तस्मिन्ने - वाऽऽग्निहौत्रिकाहवनीये पूर्वोक्तप्रकारेण पूर्णाहुतिं जुहुयात् । तत्र देवते -- अध्वर्युः—अग्नये ज्योतिष्मते स्वाहा । यजमान: - अग्नये ज्योतिष्मत इदं न मम । अध्वर्युः – वरुणाय स्वाहा । यजमान: - वरुणायेदं न मम | - शेषं पूर्वोक्तपूर्णाहुतिप्रयोगेण समानम् | प्रातस्त्वग्रतो रजते हिग्रमाण इति विशेषः । अन्यत्समानम् | नात्रानुद्धरणप्राय- श्चित्तवःप्रातरराज्यस्याग्रतो हरणम् । इत्यनया प्रणीताहवनीयस्य - प्र. ग्वोमादनुगमननिमित्तपूर्णाहुत्या श्रीपरमेश्वरः प्रीयताम् । श्रीः । यजमानः – अग्निहोत्रार्थविहृतानीनां गार्हपत्याहवनीय योर्वाऽस्तमयादुदया- दोर्ध्व मनुगमननि भित्तज नितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ मम्मीना धास्ये। अग्नीन्पुनराधास्य इति वा ।