पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १९३ --- यजमानः – सूर्यायेदं न मम | इति हुत्वा शेषं पूर्वोक्तपूर्णाहुतिप्रयोगेण समानम् । पूर्णाहुतौ हुतायां पत्नीयजमानौ यतवाचौ भूवा तानेवाग्नीञ्ज्वलयन्तावनश्नन्तावहःशेषमु पासीयाताम् । नास्त्यत्रानुगमनमाहवनीयस्य कालात्ययप्रायश्चित्तवत् । सायमग्निहोत्रकाल एकस्या गोः पयोऽधिश्रित्य तस्मिन्नेव पयसि द्वितीयगोः पयोऽव- नीय तेन पयसाऽग्निहोत्रं समापयेत् । तन आहवनीयदक्षिण ग्न्योरपवर्गः । श्वोभूते पूर्वाद्धे - - यजमानः——व्रातभृतीष्टिस्थाने पूर्णाहुतिं होष्यामि । अध्वर्युः – अग्नये व्रतभृते स्वाहा । - यजमानः – अग्नये व्रतभृत इदं न मम | - शेषं पूर्वोक्तपूर्णाहुतिप्रयोगेण समानम् । इति प्रातरनुद्धरणप्रायश्चित्तप्रयोगः । श्रीः । ( १ ) *यजमान:- आहवनीये श्रियमाणे गार्हपत्यानुगमने गार्हपत्ययावक्षामेभ्यो गार्हपत्यं मथित्वाऽऽहवनीयं विद्यमानमनुगमयेत् । तत आहवनीयं तुष्णीं गार्हपत्यादुद्धृत्य प्रणीय निधाय तमुपतिष्ठेत । तत्र मन्त्रः - अग्ने सम्राळिषे राये रमस्व सहसे युम्नायोर्जेऽपत्याय | सम्राळसि स्वराळास सारस्वतौ त्वोत्सौ प्रावतामन्नादं त्वान्नपत्यायाऽऽदधे || इति । गार्हपत्यानुगमनजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरमीत्यर्थं तपस्वज्जन- इत्पावकवदनीष्टिस्थाने पूर्णाहुतिं होष्यामि । इति संकस्य पूर्वोक्तपूर्णाहुतिप्रयोगरीत्या सर्वमध्वर्युणा कार्यम् । तत्रायं विशेष:- अध्वर्युः - अग्नये तपस्वते जनते पावकवते स्वाहा । यजमानः – अग्नये तपस्वते जनद्वते पावकवत इदं न मम | शेषं पूर्वोक्तपूर्णाहुतिवत् । अनेन पूर्णाहुतिहोमेन भगवीपरमेश्वरः मीयताम् । आचामेत् । ( २ ) मन्थनसमर्थक्षामाभावे गार्हपत्यभस्मनारणी लेपयिन्त्रा मन्थेत् । तत्र मन्त्रः- इतो जज्ञे प्रथममेभ्यो योनिभ्यो अधिजातवेदाः । अन्येऽपि मन्धेयुः |