पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ अग्निहोत्रचन्द्रिका | अध्वर्युः - रजतां वेत्यायग्निहोत्रं नित्यवस्कुर्यात् । w ततो चारुणीष्ठिस्थाने पूर्ण हुतिः कार्या । प्रयोगस्तु प्रागुक्त एवं । चारुणीष्टिस्थाने पूर्णाहुतिं होप्यामि | वरुणाय स्वाहा । यजमानः – वरुणायेदं न मम | इत्यादि सबै पूर्वं कालाव्ययप्रायश्चित्ते पश्चितं तत एव'नुसंधेयम् । इति सायमनुद्भरणप्रायश्चित्तप्रयोगः । श्रीः । यजमानः—आचम्य पत्न्या सह तीर्थेन प्रविश्य गार्हपत्यस्य पश्चादुपविश्य प्रातरनुद्धरणप्रायश्चित्तपूर्वकं प्रातरग्निहोत्रं पयसा होण्यामि । अग्निहोत्रं जुहुधी त्यध्वर्यु कृत्वा प्रणयनार्थं बहुविदं ब्राह्मणं च वृत्वा स्वासन उप- विशेत् । ततोऽध्वर्युर्दक्षिणाग्नि प्रणयेत् । ततो यजमानेनोद्धराऽऽहवनीयमिति प्रेषितो बहुविद्गार्हपत्य आज्यं संस्कृत्य सुचि चतुर्गृहीतं गृह त्वा परिकर्मिणा रजतेन सह तदाज्यं परिकर्मिहस्ते दत्त्वा तेनाऽऽज्ये रजते चाग्रतो ह्रियमाणे बहुविदेवं त्वा देवेभ्य इत्त्युद्धृत्य द्धियमाण इति प्रणीयामृताहुतिमिन्यायतने निदध्यात् । ततः - अध्वर्युः——आहबनीयस्य पुरस्तात्प्रत्यङ्मुख उपविश्य चतुर्गृहीतमाज्यं जुहुयात् । तत्र मन्त्रः - उषा: केतुना जुषतां स्वाहा । यजमान: - उषस इदं न मम | - ततः -- अध्वर्युः— परिसमूहनायग्निहोत्रा शेपसादनातं कृत्वा पूर्वमानीतं चतुर्गृहीतं गृहीत्वा जुहुयात् । तत्र मन्त्रः- प्रातर्वस्तनमः स्वाहा । यजमानः -- अहे ( ह्ल ) इदं न मम । अध्वर्युः । भूर्भुवः स्वारति जपित्वा समिदाधानादि वृष्ट्र्यन्तं कुर्यात् । ततो यज- मानेन बरे दत्ते शेपमग्निहोत्राङ्गजातं समापयत् । ततः— यजमानः – मित्रसूर्येष्टिस्थाने पूर्णाहुति होण्यामि । - अध्वर्युः – आग्निहोत्रकेष्वेवाग्निमित्राय स्वाहा | यजमान: - मित्रायेदं न मम । अध्वर्यु:- सूर्याय स्वाहा । -