पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमिहोत्रचन्द्रिका | १९१ ना० दृ० – आहुत्योरन्तरा ऽनानुगते सति हिरण्यं निधाय तस्मिन्दितीयामाहुर्ति जुहुयात् । हिरण्य एत्र यथासंभवं शेषकार्याणि कुर्यात् । न पुनरग्निर्तव्यः । अभ्या- सोऽध्यायपरिसमाप्त्यर्थः । इत्यग्निहोत्रप्रायश्चित्तसूत्रं देवत्रातकृतभाष्यसहितं नारायण वृत्तिसमेतं च | अथ प्रायश्चित्तप्रयोगः । यजमानः – अग्निहोत्रकाल उद्धरणमारभ्याऽऽहोमं दुःखाश्रुपात आचम्य अग्निहोत्रकर्ममध्ये दुःखाश्रुपातजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरमी- स्यर्थ व्रातभूतीष्टिस्थाने पूर्णाहुतिं होष्यामि । अध्वर्युः – अग्निहोत्रहोमोत्तरं तस्मिन्नेवाऽऽहवनीये पूर्णाहुतिं जुहुयात् । अग्नये व्रतभृते स्वाहा । - यजमानः – अग्नये व्रतभृत इदं न मम | शेषं पूर्वोतपूर्णाहु॑तिप्रयोगेण समानम् । अनेन पूर्णाहुतिहोमेन भगवाञ्छ्रीपरमेश्वरः प्रीषताम् । आचामेत् । श्रीः । यजमान:- - आचम्य पत्न्या सह तीर्थेन प्रविश्य गार्हपत्यस्य पश्चादुपविश्य - सायमनु दूरणप्रायश्चित्तपूर्वकं पयसा सायमग्निहोत्रं होण्यामे । इति संकल्याग्निहोत्रं जुहुधीस्यध्वर्युं वृत्वा प्रणयनार्थं बहुविदं ब्राह्मणं वृत्वा स्वासन उपविशेत् । ततोऽध्वर्युर्दक्षिणाग्नि प्रणयेत् । ततो यजनाने नोद्धराऽऽहवनीयमिति प्रेषितो बहुविद्देत्रं त्वा देवेभ्य इत्युद्धृत्य परिकर्मिणा हिरण्ये दर्भैरप्रतो ह्रियमाण उद्ध्रियमाण उद्धर पाप्मन इत्यादिनित्य विधिना प्रणीय हिरण्यमादित्यस्वेन परिकल्यामृताहुतिमित्यादिना निध्यात् । अध्वर्यु:-- परिसमूहनादि कुशेपूरसादनान्तं कृत्वा पूर्णाहुत्युक्त प्रकारेणाऽऽज्यं संस्कृत्य स्रुचि चतुर्गृहीतं गृहीत्वा भूर्भुवः स्वरिति जनित्वा यजमानेन बरे दत्ते जुहुयात् । तत्र मन्त्रः - यजमान:- But दोषावस्तर्नमः स्वाहा । -राया इदं न मम |