पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्रचन्द्रिका पाणौ चेद्वासेऽनवरोधः । 0 दे० भा० - पाणौ यदि पूर्व हुतमग्निहोत्रं वासेऽनवरोधः । अभ्यागतस्य ब्राह्मण- स्यावरोधो न कर्तव्यः । प्रत्याख्यानं न कर्तव्यम् । आसनशयनभोजनादिभिर्यथाशक्ति यजेत् । एतद्भुतं भवति । ब्राह्मणमेव नान्यम् । एतस्य हि पाणौ कृतत्रत् । ना० वृe - यदि पाणौ जुहुयात्तदा ब्राह्मणस्य व सार्थिनो नावरोधः कार्यः । कर्णे चेन्मांसवर्जनम् । दे० भा० - नान्यस्य । तस्य कर्णे द्रुतत्वात् । एवमाध्वर्यव उक्तम् | ना० वृ – अत्र/जमांसवर्जनं भवति । १९० स्तम्बे चेन्नाधिशयीत | दे० मा० - स्तम्बे चेद्भुतं भवति । दर्भस्तम्ब एक प्रस्तरे न शयीत । एवमा ध्वर्यवेऽ- प्युक्तम् । ना० वृ० -- अत्र दर्भाणामन धिशयनम् । अप्सु चेदविवेकः | दे० भा० - अप्सु चेद्धुतं भवतीमा आपः शोभना इमा आपोऽशोभना इति पृथक्त्वेन विशेषकरणम् । विशेषप्रतिषिद्धास्तु न कर्तव्या. एव न वर्णसंदुष्टाद्विर्जुष्टाः स्युरशुभागमा इति । ना० वृ० 11 - अत्राविवेकोऽपामिमा भोजनीया इमा अभोजनीया इत्येवं रूपः | एतत्सांवत्सरं व्रतं यावज्जीविकं वा । J दे० भा० – एतदुक्तं व्रतं सांवत्सरं भवति । संवत्सरे भवं सांवरम् | संवत्सरमे- तद्वतं भवति । व्रतकालस्यानिय मे प्राप्ते कालनियमः क्रियते संवत्सरमिति । यावज्जीविक वा । यावज्जीवति तावत्काले भवं यावज्जीविकं वा भवतीति विकल्पः । अग्नावनुगतेऽन्तराऽऽहुती हिरण्य उत्तरां जुहुयाद्धिरण्य उत्तरां जुहुयात् । - दे० भा० – अग्लावनुगत उपशान्तेऽन्तरा | आहुतिश्चाऽऽहुतिश्चाऽऽहुती । अन्तरा मध्ये यो सहुये मध्ये चेदग्निरनुगच्छेदुत्तरस्या आहुत्या अथ पुनः प्रणयने प्राप्त इदमुच्यते । हिरण्य उत्तरां जुहुयात् । तत्स्थाने हिरण्यमाधाय तस्मिन्हिरण्य उत्तरामाहुर्ति जुहुयात् । होमसमाप्तौ हिरण्यमेव भवति न पुनरग्निः । अग्ने प्रयातं परियद्धिरण्यामिति मन्त्रहरण्य, उत्तरां जुहुयादित्यध्यायान्तलक्षणोऽभ्यासः । यथा ब्राह्मणे |