पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमहोत्रचन्द्रिका | १८९ दिशि कुशेषूपसाय जान्वाच्य समिधमाधायाप उप हुन्बावेक्षणं न विद्यते गार्हप- त्याभावात् । अयोत्तरां हुवाऽनुप्रकम्प्य कुशमूलेषु निमृज्य पितृभ्योऽनीयाप उपस्पृश्यो- दङ्ङावृत्य भक्षयेत् । भक्षयित्वाऽन्यात्ममपः स्रुचोऽभिसंबन्धादपां सेचनं भवति । षष्ठी लु- प्यते गार्हपत्याभावात् । प्रतितपनं न विद्यतेऽग्न्यभावाद्यभावात्परिक मिंग एव प्रयच्छेत् । गार्हपत्यदक्षिणाग्न्योरभावात्तयोमो न विद्यते । अग्न्यभावात्सभिदाधनं न विद्यते । इन्धनत्वाद्दीदिहीति लिङ्गदर्शनादिन्धनाय पर्युक्षणपरिसमूहने तु भवतः पूर्वत्रैव । उत्तरे- ष्वपि द्रव्येषु च चतुर्णामेव द्रव्याणां समासेन वचनतुल्यत्वात् । तुल्यं हि व्रतविधा- नम् । इतरेषु व्रताभावादसमासः । काष्टेष्वेषामभावे काष्ठेषु जुहुयात् । अग्नेरुक्तो विहारः । काष्ठे विहरणं न प्राप्नोति । विहाराभावाद्विहारोपदिष्टानि कर्माणि लुप्यन्ते । यथा पाणिहोमे । काष्टाभावे पृथिव्यां जुहुयात् । पृथिव्या एकत्वाद्विहरणं न संभवति । विहाराभावाद्विहारोपदिष्टानि न विद्यन्ते यथा पाणिहोमे तथा पृथिव्यामेवमप्सु होमेऽपि तुल्यम् । 01 ना० वृ०- - अग्नौ सर्वधर्मसंभवात्तस्य पृथग्योगभावः । पाण्यादीनां चतुर्णामिन्ध- नादि श्रपणादि वर्जयित्वाऽन्यत्सर्वं संभवतीति पृथग्भावः । काष्ठानामबभावे विधानादुद- ककार्याण्यपि काष्ठेषु न स्युरिति तेषां पृथग्भावः । पाण्यादिषु पञ्चस्वाहुतिधारणार्था समि- द्भवतीन्धनार्थास्तु न भवन्त्येव समिधः | पृथिव्यां तु धारणार्थाऽपि समिन्न भवति काष्टा भावे तस्या विधानात् । एवमन्यदपि विचार्य कर्तव्यम् । हुत्वा त्वपि मन्थनम् | ६० भा०——एवमन्तेऽभाषेन यद्यन्यत्स्याल्लभेत तस्मिन्दुत्वा तदानीमेव मन्धनं च प्रायश्चित्तेष्टिं कुर्यात् । तुशब्दोऽवधारणार्थो भवति । हुत्वा तदानीमेत्र मन्थनमिति । गार्हपत्यो नित्योऽजस्त्रः । तस्याननुगम्यस्य मुहूर्तमप्युपेक्षणमन्याय्यम् । पूर्वमन्धनं तु येन प्रारब्धं तेनैव कर्म कर्तव्यम् । यदि क्षामेभ्यः प्रारब्धं तेभ्य एव मन्थेयुः । यद्यर- गीभ्यां प्रारब्धं ताभ्यामेव । अपिशब्दः समुच्चयार्थः । मन्थनं कृत्वाऽनुगतेष्टिं कुर्यादि- त्यर्थः । तत इष्टिरग्निस्तपस्वानिति । तदानीमेवेष्टिं पूर्णाहुति वा जुहुयात् । 1- ना० तृ० - होमं कृत्वाऽनन्तरमेव मन्थनमपि भवति । अपिशब्दात्कालान्तरेऽपि मन्थनं भवति । अत्र विनिवेश: । यदा प्रयाणकाले प्रयाणं परिसमाप्तं तदा होमानन्तर- मेव मन्थनं भवति । यदा त्वपरिसमाप्तं प्रयाणं तदा पुनरपि होमकाल एव मन्थनमिति । तुशब्दोऽवधारणार्थ: । हुत्वा मन्थनमेव भवति न पुनर्होम इति ।