पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ अग्निहोत्रचन्द्रिका | ना० वृ – अग्निष्चरण्योः समारूढेषु सत्स्वरण्योनशेऽग्न्याधेयं पुनराधेयं वा कर्तव्यम् । अन्यतरारणीबाशेऽपि भवत्येतत्प्रायश्चित्तं तयोरेकैकस्या एवं कार्यविशेषे नियमाज्जायापती "संस्तुतत्वाच्च । नन्वरणीनाश इति शब्द एकस्यामप्यनष्टायां न प्रवर्तत इति । सत्यम् । असौ शब्दो न प्रवर्तते । तथाऽपि मन्थनपदार्थो नैकया संपादयितुं शक्यत इत्यनष्टाऽपि नष्टैत्रेति कृत्वोत्तम् | यदि परमनष्टामेव द्विधा कृत्वा मन्थनसिद्धिरिति । तथाऽपि नैवं चक्तुं शक्यते-उपादानकालेऽरणी आहरेदिति । द्वयोरुपादानमदृष्टार्थं स्यादिति युक्तं कार्य- भेददर्शनादिति । एवं सत्युर्वशीपुरूरवः संस्तुतिरवरोत्तरयोररण्योः श्रूयमाणा चोपपन्ना भवतीति युक्तम् । अथाऽऽग्नेय्य इष्टयः | दे० भा० – अथशब्दोऽधिकारार्थः | अग्निय्य इष्टयोऽधिक्रियन्ते । यदित ऊर्ध्वमनु ऋमिष्यामस्तदाऽऽग्नेयी नामिष्टीनां विधानम् | आग्नेय्य इत्यधिकारादित ऊर्ध्वं ये गुणास्ते वक्ष्यन्ते । तेऽग्नेर्गुणा भवन्ति । व्रतपतयेऽग्नयेऽग्नये ऽग्निमत इष्टि र्भवति । इष्टिवचना- दिष्टयो भवन्ति । आहुतये भवन्ति । प्रत्याम्नाये वक्ष्यमाणाभ्यामुग्भ्यां तस्यै तस्यै देवताया आहुतिं जुहुयात् । इष्टयो वक्ष्यन्ते । ना० वृ० – अथानन्तरं या वक्ष्यन्ते ता अग्निदेवत्या इष्टय इति वेदितव्यमित्यस्य सूत्रस्यार्थः । यान्यत्र चतुर्थ्यन्तानि पदानि तान्यग्नेर्गुणत्राचकानीत्यर्थः । एतेनावगम्यते सर्वत्र चोदितेव देवता चोदनायां याज्यानुवाक्यादिगम्या देवतागुणस्तु चोदनात एवावग- न्तव्यः । कथं तर्हि वैश्वानरपार्जन्यायां वैश्वानरशब्दोऽग्नेर्गुगः । तयोरेव याज्यानुवाक्य- योस्तत्र प्रवेशात् । अत्र हि वैश्वानरशब्दस्याग्निगुणत्वं चोदितमेवेति । सानावग्रिमणय नेऽग्निवते । दे० भा०–साग्नावग्निप्रणयनेऽग्निनाऽऽयतनस्याग्निः सा ग्नावायतने चेदग्निः प्राणी- यतेऽनुपशान्तेऽग्नावुपशान्त इति मत्वा ह्यग्नि प्रणयति प्रणीतेऽग्नौ यदि दृश्यतेऽग्निस्त स्मिन्नग्नावग्निप्रणयने सत्यग्नयेऽग्निवत इष्टिर्भवति । तस्या वक्ष्यति याज्यानुत्राक्थे । शेषं पौर्णमासेन स यद्यनुपश्येदुदुहा पूर्वमपरं निदध्यादित्युक्तं ब्राह्मणे तथाऽपि प्रायश्चित्तं विद्यते । ना० वृ० - निवृत्तकर्मणाऽनिवृत्त कर्मणा वाऽग्निना सहित अहवनीयायतने यद्य न्योऽग्निराहबनीयार्थ उदधिषेत तनग्निमनिधायैव स्मरति चेदायतनस्थमुदुचेदानीमुहुतं निदध्यात् । तथा सतौष्टिर्न भवति । एतस्मिन्नपि पक्षे यद्यनपवृत्त कर्मोदूह्येत तदा व्याहृति- होमः कर्तव्य: । अपहृत्तकर्मा चेन किंचिदपि प्रायश्चित्तं विद्यते । यद्यस्मृत्व तस्मिपूर्व- प्रणीते निदध्यात्तदेयमिष्टिः कर्या ।