पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | क्षामायागारदा शुचये संसर्जनेऽग्निनाऽन्येन | । दे० भा०—क्षामायागारदाहे यजमानस्य गृहदाहेऽग्नये क्षामवत इष्टिर्भवति । तस्या याज्यानुवाक्ये वक्ष्यति । शेषं पौर्णमासेन । अध्वर्पूणां क्षामवत इति चोदितमिह तु क्षामा- येति । तस्मादध्वर्यवोऽग्नये क्षामवत इति प्रेष्यन्ति । तैः सहाग्निं क्षामवन्तमावहेति । शुचयेऽग्नय इष्टिर्भवति । अग्निनाऽन्येन इमशानाग्निना संसति तस्या उक्ते याज्या- नुवाक्ये आघानेष्ट्यामन्थेनेति श्मशानाग्निनेत्युक्तं भवति । उत्तरत्रान्येति । उक्तं च श्रुत्य- न्तरे च । ना० ० -- अन्य इति शवाग्निरुच्यते । मिथश्चेद्विविचये । दे० भा० – यदि सर्वेऽग्नयो मिथो भवन्त्येकीभावं गच्छन्ति तथा सन्यग्नये विविचय इष्टिर्भवति । तस्या याज्यानुवाक्ये वक्ष्यति । शेषं पौर्णमासेन | चेदित्य नित्यभावे । ना० ढ०–गार्हपत्यादयः सर्वे द्वौ वा परस्परं यदि संसृज्येस्तदा विविचय इष्टिः कर्तव्या । गार्हपत्याहवनीययोवतिये । दे० भा० - गार्हपत्याहवनीययोर्मिथोभावे द्वयोरेवैकीभावे सत्यग्नये वीतय इष्टिर्भवति । तस्या याज्यानुवाक्ये वक्ष्यति । शेषं पौर्णमासेन । मिथोभूतावग्नी विभज्य स्थानेषु स्थापयित्वेष्टिं कुर्यात् । ना० दृ० – पूर्वस्यायमपवादः । - ग्राम्येण संवर्गाय | १८५ दे० भा० - प्राम्येणाग्निना संसर्गे सत्यग्नये संवर्गायेष्टिर्भवति । तस्या याज्यानु वाक्ये वक्ष्यति । शेषं पौर्णमासेन । इह ग्राम्येणेति वचनादारण्येनाग्निना संसर्ग इष्टि- रन्या निर्मातव्या तदुक्तं ब्राह्मणे- - तस्य दावाग्निना संसर्ग इति । - ना० वृ० - प्र ७ - ग्राम्यः पचनाग्निः । वैश्रुतेनाप्ने वैश्वानराय विमतानामन्नभोजने । - दे० भा० - विद्युद्भवो वैद्युतस्तेनाग्निना संसर्गेऽग्नयेऽसुमत इष्टिर्भवति । तस्या याज्यानुवाक्ये वक्ष्यति । शेषं पौर्णमासेन | वैश्वानरायग्नये वैश्वानरायेष्टिर्भवति । त्रिमता नाम विद्वेषिणो वैरिणस्तेषां त्रिमतानामन्त्रभोजने सति नेपामत्रं यजमानो यदि भुङ्गे | तस्या याभ्यानुवाक्ये उन्ने चातुर्मास्यप्रकरणे ।