पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १८३ 1 1 तत्र हि सर्वेऽग्नयः समवेता इति गम्यते । तनो विहरणदर्शनात् । कथं नत्र समवायः । अङ्गःरसमत्रायस्तावन्नास्ति । कर्मार्थ पृथक्कृतानां कर्मसमाप्तौ तत्रैवःनुगमनदर्शनात् । अथा- यमभिप्रायः- पः - अङ्गाराश्रय यो दक्षियाग्न्याहचनीयाख्यः शास्त्रगम्यः स कर्मसमाप्तौ गार्हपत्याङ्गाराननुप्रविशति । अन्यथः तत उद्धरणविधानं नोपपद्यते । तत्सं सर्गे संसर्गदोपश्च नास्ति । अङ्गारसंसर्गो हि सः । तथा च शास्त्रान्तरे वचनम् । यदि पूर्भोऽनुगतः संत्रर्ध्य पश्चाद्रि स तर्हि गा इत्यवपिन युज्यते | अवि- स्थायां गार्हपत्ये “ गार्हपत्यं प्रज्वल्य " इति सूत्रमयोगान् । तथा च शास्त्रान्तरे सूत्र- कारप्रयोगो मब्रवर्णश्च दृश्यते – गार्हपत्यमभिमन्यते सुगार्हपचमभिमन्यते सुगहिं पत्यः " इति । तेनावगम्यते तत्रानुनवेशोअन्यन्तरस्य नास्तीति । यत्पुनः पश्चाद्धि स तर्हि गतः '” इति तद्रव्यन्यपरन् | यदि हि सर्वदाऽनुगतस्याऽऽहवनीयस्य गार्हपत्यात्म- णयनॆने॑ोत्पत्तिः स्यात्तदैवैतल्लिङ्गमनुप्रवेशस्य तत्र हि शास्त्रे मन्थनादयुत्पत्तिरुक्ता अतोऽस्यायमर्थः—अस्मिन्छनुगमन गार्हपत्यात्प्रणयनेनःपत्तिरुक्ता - तदाऽनुगतेऽन्तरा संच- रणमविरुद्धं मन्थनोत्पाद्येऽनुगतेऽप्यन्तस न संचरितव्यमिति । अतोऽन्यपरत्वा देवास्य वाक्यस्यानुप्रवेशे लिङ्गं न भवितुमर्हति । अतस्तत्र समवायः प्रत्यक्षेण शास्त्रेग वा दक्ष. यितुं न शक्यते । कथं तर्हि तत उद्धृत आहवनीयादिमैत्रति । बचनगम्यो हि सः | वचनमेत्रं भवति ‘ गार्हपत्यं प्रज्ञल्प तता दक्षिणाग्निमुद्धृस गार्हपत्यादाहवनीयं ज्वलन्त- मुद्धरेत् ' इति । तेनाधिकृतन पुरुषेण तनियुक्तेन वाऽग्निहोत्राद्यर्थं स्वकाले यथोक्तेन विधिना य उद्धियंत स एवाऽऽहवनीया दिर्भवति नान्यथा । अन्यथा चेढुद्भियते तझ समोप्य तमग्निं विक्षेपप्रायश्चित्त कर्तव् नान्यत् । अम्पुदितेष्ठौ तु वचनान्मयोद्धृतोऽ. प्याहवनीयादिर्भवति । एवं तर्हि कर्मान्तरालकाले कामौ तिष्ठति । वयमपि न जानीमः क्वासौ तिष्ठतीति । एतःवदत्रावगन्तुं शक्यते । सर्वकर्मार्थमन्नय आहिताः । तत्र गाई- पत्यो यावज्जीवं धार्यते वचनात् । इतरौ तु कर्माण कर्मभुद्धियेते । गतश्रियः सर्वे धार्यन्ते वचनादेव नान्यदतोऽवगन्तुं शक्यते । एवं सति कर्मापूर्ववत्तिष्ठति । यथा यागादिजनितान्यपूर्वाणि यावत्फलभोगसंवन्धं तिष्ठन्ति तथाऽऽहवनीयादिरपि तिष्ठतीति । अतोऽनुद्धतेषु गार्हपत्यानुगमने सर्वनुगमनं नास्तीति । तत्राग्न्याधेयं पुनराधेयं वा न कर्तव्यमिति सिद्धम् । समाळेषु चारणीनाशे । दे० भा० - समारूढेषु चारण्याः समारूढे चाग्निषु यद्यरण्योर्नाशोऽरणीनाशस्त स्मिन्नरणीनाशेऽग्न्याधेयं वा भवति । चशब्दः समुच्चयार्थः । येषां यजमान एवाग्नयो भवन्तीति वचनात्ते अरणी अहृय तयोः प्रत्यवरुह्य मन्यन्ति । ·