पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ अग्निहोत्रचन्द्रिका | पूर्णाहुतौ हुतायाम् (इष्टिकरगपक्ष इष्टिसमाप्तौ ) पत्नीयजमानौ यतवाचौ भूत्वा ताने- वाग्नीज्वलयन्तात्रनश्नन्तावहः शेषमुपासीयाताम् । ततो रात्रौ द्वयोर्गवोर्दुग्धेन सायमग्निहोत्रं स्वकाले जुहुयात् । तत्रायं योगविशेषः - एकस्या गोः पयस्यधिश्रिते द्वितीयं गोर्दुग्धं तस्मिन्नेबावनीय तेन सायंहोमः । दक्षिणाग्न्याहवनीययोरपवर्गः । ततः श्वोभूते पूर्वाह्न इष्टिः कार्या । तत्र देवता ब्रतभृगणकोऽग्निः । तत्स्थाने पूर्णाहुतिर्वा । पूर्णाहुतिमन्त्रस्तु- - अग्नये व्रतभृते स्वाहा । अग्नये व्रतभृत इदं न मम । इति । अन्यः प्रयोगस्तु माग्गत एव । एतावता सायंनिधानोत्तरं होमकालातिपत्तौ प्रायश्चित्तेऽयं क्रमः- १ उपसादनानन्तरं भूर्भुवः स्वाररीते जपः । २ ततो यजमानकर्तृकं वरदानम् । ३ ततश्चर्तुगृहीतहोमः । ४ ततः समिदाधानादि नित्याग्निहोत्रम् | ५ ततस्तेष्वेवाग्निषु वारुगीष्टिः पूर्णाहुतिर्वा । इति सायंकालातिपत्तिप्रायश्चित्तिक्रमः । अथ प्रातःकालातिपत्तिमायश्चित्तिक्रमः | १ प्रातर मिहोत्रमुपसाद्य भूर्भुवः स्वारति जपः । २ चतुर्गृहीतहोमः । ३ ततः समिदाधानादि नित्याग्निहोत्रीयदृष्ट्यन्तम् । ४ ततो वरदानम् | ५ ततो गार्हपत्य होमादि नित्यवत् । ६ तत अहवनीयमनुगमस्य पुनः प्रणीय ततस्तस्मिन्नेवाऽऽहवनीये प्रणीत इष्टिः पूर्णाहुतिर्वा । ७ ततः पत्न्या सह यजमानस्य वाग्यमनम् । ८ ज्वलदग्नीनां समीपेऽनश्न तोस्तयो ६ प यो रासायं वासः । ९ ततः सायमग्निहोत्रं द्वयोर्गवोर्दुग्धेन कार्यम् । १० ततो दक्षिणा ग्न्याहवनीययोरपवर्गः । ११ ततः श्रीभूत इष्टिः पूर्णाहुतिर्वा । इति प्रातःकालातिपत्तिप्रायश्चित्तिक्रमः ।