पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुन ग्राम् । मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवज्जुद्दोन || इति मन्त्रेण समिधमादध्यात् । यजमान: - प्राकृतमेव समिदाधानानुमन्त्रणमा | वृत्तिकृत्त इदं समिदाधानमधिकमित्याह । यद्युत्तराहुतिरहुता स्कन्देचदा- यत्र वेत्थ वनस्पते देवानां गुड्या नामानि । तत्र हव्यानि गामय || इति मन्त्रेण समिधमाधाय नित्यवज्जुहुयात् । संपूर्णस्कन्दन आहुतिस्थाने यत्र वेत्थेस नेन मन्त्रेण समिन्मात्रमाघातव्यम् । सायंहोमकालातिक्रमण उपसादनान्तं कृत्वा भूर्भुवः स्वः । इति जपित्वा यजमानः- सायंहोमकालातिक्रमण जनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थवरं दास्ये । इति बरं दद्यात् । बरे दत्ते जुह्वां स्त्रयेण चतुर्गृहीतं गृहीत्वा दोषावस्तर्नमः स्वाहा । १७५ इति मन्त्रेणाऽऽहवनीये जुहुयात् । ततोऽग्निहोत्रहोमः | समाप्तेऽग्निहोत्रहाने तेष्वेवा- ग्निषु वारुण्येष्ट्या यजेत पूर्णाहुति वा जुहुयात् । पूर्णाहुतिप्रयोगस्तु प्रागेनोक्तः । पूर्णाहुतौ मन्त्रस्तु— वरुणाय स्वाहा | यजमानः- वरुणायेदं न ममेति ब्रूयात् । इति सायंका.लिकप्रायश्चित्तविधिः । प्रातःकालिकमुच्यते प्रातर्हत्वा वरं प्रदायाऽऽहवनीयमनुगमयित्वा पुनः प्रणीय इहैव क्षेभ्य एधि मा महासीरमुं माऽऽमुण्यायणम् । इति मन्त्रेण प्रणयेत् । प्रातस्त्वयं विशेषो हुत्वा वरदानम् । प्रातर्वस्तर्नमः स्वाहा | इति प्रातर्होममन्त्रः। इष्ठिरपि पृथगेव | मित्रसूर्यौ देवते | इंष्टिस्याने पूर्ववपूर्णाहुतिः । प्रयोगस्तु गत एव | पूर्णाहुतिमन्त्री तु - मित्राय स्वाहा | सूर्याय स्वाहा । इति । इष्टिकरणपक्षत्रन्यतो ऽवगन्तनः ।