पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ अग्निहोत्रचन्द्रिका | प्रजापतेर्विश्वभृति तन्वं हुतमसि । इति मन्त्रेण प्राचीनहरणसमये स्कन्नमभिमृश्य शेषेण जुहुयात् । अशेषे प्राचीनहरणे यावति गते स्कन्नं भवति तावत्वेवा ध्वन्युपविश्य स्थालीमन्येन प्राचीं नीत्वा तत्रैबोन्नीय जुहुयान्न स्वयं स्रुम्बा प्रत्यभ्यच्छेत् | यदि स्थाल्यामपि हविर्नास्ति तदा तूष्णीमाज्यमुत्पूयो- नीय जुहुयात् । एतत्प्रायश्चित्तं प्रधानः हुतिद्वयपर्यन्तमेव ततो वारुणी जपेत् । मन्त्रस्तु- इमं मे वरुण श्रुषी हवमद्या च मृळय | त्वामवस्युराचके । सतो होमोऽपि बारुण्यैव नात्र प्राकृतो होममन्त्रः । मन्त्रस्तुं – तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो इविभिः । अहेळमानो वरुणेद्द बोध्युरुशंस मा न. आयुः प्रमोषी: स्वाह्य || - यजमानः – वरुणायेदं न मम । ततोऽनशनमाऽन्यस्माद्धोमात् । स्कन्दने स्वेवम्- पूर्णस्स्रुक्स्कन्दने पादोनस्त्रुवपूर्णस्कन्दने च प्रायश्चित्तं न न्यूनस्कन्दने । न्यूनस्कन्दने तु केवलं प्रजापतेरित्यनेन पूर्वोक्तेन मन्त्रेणाभिमर्शः । अधिश्रितमग्निहोत्रं यदि शब्दयेत्तद्द्रव्यमभिमन्त्रयेत् । तत्र मन्त्रः – समोष देवदत्तशर्माणम् | - देवदत्तेत्यस्य स्थाने द्वेष्टुर्नामोदाहरेत् । उद्वासिते दिवे त्वेत्याद्यनन्तरं स्कलं चेत् - - मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् है पिपतानो भरीमभिः || इत्यनेन मन्त्रेणाऽऽहवनीयस्य भस्मान्ते निन्येत् | बीभत्सं चेत् – मजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् । मध्यमेन पलाशपर्णेन बक्ष्मीकवपायामप्सु वा जुहुय त् । अप्सु चेत्तृष्णम् ॥ अग्निहोत्रग्रव्ये संस्कृते यदि वर्धारा अभिपतन्ति तदा तदग्निहोत्रद्रव्यमभिवृष्टं भवति तस्मिन्नभिवृष्टे कुजेषूपमादनान्तं कृत्वा