पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | मातरिष्टिः ॥ ४९ ॥ दे० भा० - प्रातरिधिः क्रियते सा वक्ष्यते । प्रातरितिवचनाद्भुतेऽग्निहोत्रे भवति । समानकाले चोदितेष्टिः । पूत्रोक्तत्वादग्निहोत्रं पूर्वं भवति । अनन्तरेष्टिः सा वक्ष्यते ॥ ४९ ॥ १७३ मा० वृ० -- ततः श्वोभूते पूर्वाह्न इष्टिः कार्या । इयमपि प्रातःकालातिप- त्तिनिमित्तैव । प्रातरिति कालनियमात्प्रयोगभेदः । ततो विहरणभेदोऽपराग्न्योरपि भवति ॥ ४९ ॥ अनितभृत् ॥ ५० ॥ दे० भा० - अनिर्ब्रतभृदेवता ॥ ५० ॥ ना० वृ०-व्रतभृद्भुणकोऽग्निर्देवता ॥ ५० ॥ त्वममे व्रतमृच्छुचिरने देवाँ इहाऽऽवह | उपयज्ञं हविश्व नः । ब्रतानि विभ्र- द्व्रतपा अदब्धो यजानो देवाँ अजरः सुवीरः । दधद्रत्नानि सुमुळीको अग्ने गोपाय नो जीवसे जातवेद इति ॥ ५१ ॥ दे० भा० - स्वमग्ने व्रतभूदिति यथासमाम्नाते याज्यानुवाक्ये । शेषं पौर्णन, सेन समाप्तेष्टिः । समाप्तं च कालातिनयप्रायश्चित्तम् ॥ ५१ ॥ ना० वृ – एतत्प्रायश्चित्तं स्त्रकाल एव प्रणीतेष्वमिषु होमकालातिपत्तौ भवति । अप्रणीतेषूक्तका खातिपत्तावत्यम्तापद्यनुवृतप्रायश्चित्तं कृत्वा होमं कुर्यात् । अनापदि मन- स्वतीहोमेनानुद्धृतप्रापश्चितेन च सहितो होमः कर्यः । विहृतेष्वेवाग्निष्वहुतेषु होमान्तरका- लप्राप्ताबुपक्रान्तमेव होमं कालातिपत्तिप्रायश्चित्तसहितं कृत्वा वर्तमानकालीन मनुद्धृतप्राय- श्चित्तसहितं कुर्यात् । अविहृतेषु कालान्तरप्राप्तौ मनस्वतीहोमं कृत्वाऽतिपन्नस्य प्रतिहोमं च कृत्वाऽनुदूतप्रायश्चित्तादि पूर्ववत् । एवमनेककालातिपत्तावपि द्रष्टव्यम् । विहृतेष्वविद्ध तेषु वाऽनेककालातिपत्तौ मनस्त्रतीहोमं प्रतिहोमं चावश्यं कुर्यात् । विहृतेषु तेष्वेवाग्निषु । अविहृतेषु त्वग्नीन्विहृत्य मनस्वत्यादि कृत्वा प्राप्तकालस्य विहरणादि क्रियेत । एवमत्र विचार्य यद्युक्तं तत्कर्तव्यम् । विचारस्याऽऽस्पदमात्रमत्र लिखितमिति मन्तव्यम् ॥ ५१ ॥ अथ प्रायश्चित्तमयोगः । जपानन्तरमवशिष्टेनैव होतव्यं यदि होममात्र पर्याप्तं स्यात् । भक्षणादेर्लोपः । होम- स्यापर्याप्तावन्यदभ्यानीय जुहुयात् । एतत्प्रायश्चित्तं दोहनकालस्कनमार म्योन्नीयाऽऽहवनी- यप्नतिहरणपर्यन्तं ज्ञेयम् ।