पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ अग्निहोत्रचन्द्रिका | ना० ० – एते देवते ॥ ४५ ॥ अभि यो महिना दिवं म स मित्र मर्तो अस्तु प्रयस्वानिति संस्थितायां पत्न्या सह वाग्यतोऽग्नीज्ज्वलतोऽहरनश्नन्नुपासीत ॥ ४६ ॥ दे० भा० - अभि यो महिना दिवं प्रस मित्र मर्तो अस्तु प्रयस्त्रानित्येतया याज्यानु- बाक्यया मित्रस्य । सूर्यस्य * शुनासीरीयायाम् । शेषं पौर्णमासेन संस्थितायां तस्यामिष्टौं समाप्तायां पत्नीसहितो यजमानो वाग्यतोऽभाषयन्नग्नीज्ज्वलतः समृद्धाकुर्वन्नहरनश्न - न्नभुञ्जन्कृत्स्नमहरुपासीत । इह पत्न्या सहेतिवचनादर्शितं भवति यद्यजमानस्य व्रतमुच्यते तत्पल्या भवतीति । अनशनमाऽन्यस्माद्धोमकालादित्युभयोरप्यनशनं भवतीति । अहर्म- हणादेतत्सर्वमहन्येव भवति न रात्रौ । अन्यथा प्रायश्चित्तसमाप्तौ सर्व स्यात्तस्माद्रात्रौ भुञ्जीत । न च वाग्यतः । न चाग्नयो ज्वलन्तो धार्यन्ते । आ प्रायश्चित्तसमाप्तेस्त एव । प्रायश्चित्तार्थेष्वेवाग्निषु सायंहोमो हुतस्तस्मादा प्रायश्चित्तसमाप्तेर्धार्यन्ते सायंहोमार्थं ये भवन्ति ते धार्यन्ते ॥ ४६॥ मा० तृ० –समाप्तायामिष्टौ पत्नी यजमानौ यतवाचौ भूत्वा तानेवाग्मीस्ज्वलयस्तावन चन्तः वह शेषमुपासीयाताम् । उपासीत पन्या सहैवं कुर्वन्नम्मीनां समीप आसीते- त्वर्थ; ः ।। ४६ ।। द्वयोर्दुग्धेन वासेऽग्निहोत्रं जुहुयात् ॥ ४७ ॥ दे० मा० - द्वयोर्गबोर्दुग्धेन वासे सायमग्निहोत्रं जुहुयात्तेष्वेवाग्निषु ॥ ४७ ॥ ● ना० १० – वासो रात्रेः पूर्वश्चतुर्थो भागः । द्वयोर्गवोर्दुग्धेन पयसा सायमग्निहोत्र स्वकाले जुहुयादित्यर्थः ॥ १७ ॥ अधिश्रितेऽन्यस्मिद्वितीयमवनयेत् ॥ ४८ ॥ दे० भा० — अधिश्विते तस्मिद्वितीयं पयोऽवनयेत् । द्वयोः सहाधिश्रयणं न क्रियते । द्वयोर्दुग्धेनेति वचनात्सहाधिश्रयणं प्राप्तम् । द्वयोर्दुग्धेनेतिषचनाद्वयोरपि पत्नीयजमानयोः । अग्रे द्रुतशेषप्राशनमुपदिशति । ततो हुतेऽग्निहोत्रे भोजनं न च वाग्यमो न चाग्नयो ज्वलन्त एव धार्यन्त एवाऽऽप्रातः ॥ ४८ ॥ - ना० दृ० - अयमत्र विशेष: - एतस्या गोर्दुग्धं पयोऽधेिश्रित्य तस्मिन्नेव पयसि द्वितीयं गोर्दुग्धमवनयेत् । तेन पयसा होमस्ततोऽग्न्योरपवर्गः ॥ ४८ ॥

  • शुनासीरीयायां तु —तरणिर्विश्वदर्शतः | चित्रं देवानामुदगादनी कमित्युक्ते |