पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आग्नेहोत्रचन्द्रिका | १७१ न्याहृतीर्जपित्वा समिधमाधायाप उपस्पृश्य द्वे आहुती हुत्वा वरं ददाति प्रातहोंमं हुव्वा वरदानं भवति । आहुती हुत्वा च वरदानमितिवचनाज्जपस्तु यथास्थाने भवति । इह प्रातरिति वचनात्पूर्वोक्तावधि सायंहोमे भवति ॥ ४३ ॥ ना० वृ०–प्रातःकाल्मतिपत्तौ विशेषो वक्षसे । होमोत्तरकालं वृष्ट्यन्ते वरदानं कर्त व्यम् ॥ ४३ ॥ अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणयेदिहैव क्षेम्य एघि मा महासीरमुं माऽमुं माऽऽमुष्यायणमिति ॥ ४४ ॥ दे० भा० - अनुगमयित्वा चानेन विधिना प्रातरग्निहोत्रं हुत्याऽऽहवनीयं चानुगमयति । समनुगमयित्वाऽनन्तरं पुनः प्रणयेदिहैव क्षेभ्य एषीत्यनेन मन्त्रेण | चशब्दः प्रातर- धिकारसमुच्चयार्थः । सर्वेषामधिकारादाहवनीयग्रहणम् । अस्मिन्मन्त्रेऽमुमिति निर्देशात् त्रीणि नामानि यजमानस्य नाम नाक्षत्रं प्रवरमिति । तन्नोपपद्यते वचनाभावात् । यथा सूक्तबाके वचनमेषं विहितं तथाऽत्र न विद्यते वचनम् । तस्माद्यथाम्नात एव मन्त्रः प्रयोक्तव्यः । मन्त्रो हि यजमानपत्नी प्रजां च वदति ॥ ४४ ॥ ना० दृ० - समाप्तेऽग्निहोत्रहोम आहवनीयस्यानुगमनं कृत्वा पुनस्तमेवोद्धरेत् इहैव क्षेभ्य एधि " इति मन्त्रेण । मा प्रहासीरभुं माऽऽमुध्यायणमिति पाठः कर्तव्यः । अमुमित्यस्य स्थाने यजमाननाम द्वितीयया निर्दिशेत् । आमुष्यायणशब्दस्य स्थाने गोत्र- नाम मा प्रहासीर्देवदत्तं मा भारद्वाजमिति | पित्रादौ जीवति भारद्वाजायनमिति वदेत् । दक्षिणाग्निश्चाऽऽग्निहौत्रिक एव | आहवनीयस्वानुगमनावधानात् । इदमनुगमनं कस्याऽऽ- हवनीयस्थेति न विभः । आग्निहोत्रिकस्येति चेत् । न समाप्ते महोत्रे तस्य लौकिकत्वा- दनाहवर्नायित्वम् | होमे कृतेऽसमाप्ते च प्रयोगेऽनुगमनमिति चेत् । तथा सति पुनः प्रणयनमदृष्टार्थं स्यात् । अत्रायमभिप्राय: - इष्ट्यर्थ विहृतस्येति तदा पुनः प्रणयेत्तत इष्टि - रिति समन्वयो नोपपद्यते । अत्रायमभिप्रायः - समाप्तेऽग्निहोत्रे लौकिकस्य सतोऽनुगम- नमेव कर्तव्यं नाऽऽयतनाहिस्त्याग इति तदाऽऽहवनीयमिति शब्दो नोपपद्यते । अत एवंवदतः सूत्रकारस्यायमभिप्राय इति वर्णनीयम् । यस्य कस्यचित्कर्मणोऽर्थाय विहृते- ध्वग्निषु यत्किंचिदग्निसाध्यं नैमित्तिकमुत्पद्यते तस्य नैमित्तिकसहितस्य त एवाग्नयो भवेयुः । न पुनः पुनर्विहर्तव्या इति ॥ ४४ ॥ - - तत इष्टिमि॑ित्रैः सूर्यः ॥ ४५.३ दे० भां० - ततः प्रणयनादनन्तरमिष्टिः क्रियते स बक्ष्यते । मित्रः सूर्य इत्येते द्वे देवते भवतः ॥ ४५ ॥