पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । ११ । ) इत्युच्यते । तदा होमेष्वाज्ये प्राप्त इह तत्प्रकृतमाज्यं न विद्यते तस्मादाज्य मित्याह ॥ ४० ॥ ना० वृ० – कस्मिन्काले केन मन्त्रेणेत्यत आह


यदि सायं दोषावस्तर्नमः स्वाहेति यदि प्रातः प्रातर्वस्तर्नमः स्वाहेति । अग्निहोत्रमुपसाथ भूर्भुवः स्वरिति जपित्वा वरं दत्त्वा जुहुयात् ॥ ४१ ॥ दे० भा० – यदि सायंकालातिक्रमो भवति दोषावस्तर्नमः स्वाहेत्यनेन मन्त्रेण चतुर्गृहीतमाभ्यं जुहुयात् । यदिशब्देऽप्रयुज्यमाने सायंशब्दो मन्त्रादि: स्यात् सायं दोषावस्तरिति । यदि प्रातर्यदि प्रातःकालातिक्रमो भवति ततः प्रातर्वस्तर्नमः स्वाहेत्यनेन मन्त्रेण चतुर्गृहीतमाभ्यं जुहुयात् । अग्निहोत्रमुपसाद्य होमानुक्रमेण पूर्व सायंहोमविधि- रुच्यते सायंहोमेऽग्निहोत्रद्रव्यमुपसाद्याऽऽहवनीयसमीपे कुशेषूपसाघोपसादनं कृत्वा भूर्भुवः स्वर्ज्याहृतीर्जपित्वा समिधमाधायाप उपस्पृश्य वरं दत्त्वा यदस्य गृहे श्रेष्ठं वरं तदध्वर्यवे · दत्त्वा जुहुयात् । उपसाद्य जपित्वा वरं दत्त्वा जुहुयादित्येवोदितेऽप्यसमानकालान्येतान्य. समानकर्तृकाणि च । कथमुपसाद्येतिवचनादुपसाद्य जपो भवति । अध्वर्योरेव भवति । वरं दत्त्वा जुहुयादितिवचनात् । यजमानो वरं ददाति अध्वर्युर्जुहोति । यदि स्वयमेव जुहोति कस्मै वरं ददाति । गौर्वरो भवति । बहुफलत्वात् । अन्येषामप्युक्तम् – “गोर्वे चरो भवति ” ( आप० श्रौ० सू० ५ । ११ । ३९ ) ॥ ४१ ॥ - ना० वृ० – उपसादनवचनं क्रमार्थम् | उपसाद्य जपं च वरदानं च कृत्वा समिदा- धानादि पूर्ववत् | वरदानं याजमानम् । वरशब्देन गोजातिरुच्यते । तं वरं दखा जुहुया- दिति पूर्वकालतामात्रं विवक्षितं नाव्यवधानं कर्त्रेक्यं च ॥ ४१ ॥ इष्टिच वारुणी ॥ ४२ ॥ दे० भा० - अनेन विधिनाऽग्निहोत्रं जुहुयात् । इष्टिश्च वारुणी क्रियते । चशब्दः समुच्चयार्थस्तदानीमेव संस्थितेऽग्निहोत्रे कुर्यात् । त एवाग्नयो भवन्ति । आ प्रायश्चित्त- समाप्तेस्त एवाग्नयो भवन्तीति व्याख्यातम् । अनुगमयित्वा चाऽऽहवनीयमित्यत्र सायंका- - ल।तिनये `तु प्रायश्चित्तं व्याख्यातम् । प्रातःकालातिनये तु तदिदानीं वक्ष्यते ॥ ४२ ॥ ना० वृ०–कर्तव्येत्यर्थः । समाप्तेऽग्निहोत्रहोमे तेष्वेवाग्निष्त्रियमिष्टिः कार्या | उत्तर- त्रानुगमनविधानात् ॥ ४२ ॥ हुत्वा प्रातर्वरदानम् ॥ ४३ ॥ दे० भा० - प्रातरदानं प्रातःकालातिनथे तु चतुर्गृहीत माज्यं हुत्वाऽग्निहोत्रमुपसाद्य