पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | यत्र वेत्थ वनस्पत इत्युत्तरस्या आहुत्या: स्कन्दने ॥ ३७ ॥ दे० भा० - यत्र वेत्थ वनस्पत इत्येतयर्चा समिधानं क्रियते । यद्युत्तराद्दुतिरहुता स्कन्दति । तस्य स्कन्दने सत्याहुतिस्थाने समिधमादध्यात् । न पुनरुन्नयनं क्रियते । एवं प्राशनार्थमपि स्थाश्या न गृह्यते ॥ ३७ ॥ ना० वृ० - समिदाधानमिति शेषः ॥ ३७ ॥ प्रदोषान्तो १६९ ॥ ३८ ॥ 4 दे० भा० - अस्तमिते होम इति होमकाल उक्तः स प्रदोषान्तो भवति | राज्याः प्रथमो यामः प्रदोषो भवति । प्रदोषोऽन्तो यस्य होमकालस्य स प्रदोषान्त: । आ प्रदोष- समाप्तेर्होमकालो भवति । अस्तमितमात्र एव होमकालो भवति । तस्यातिकमे प्रायश्चित्तं स्यात्तस्मादिदमुच्यते प्रदोषान्त इति । तदतिक्रमे तु प्रायश्चित्तं वश्यति ॥ ३८ ॥ ना० वृ० - प्रदोषो नाम रात्रेः पूर्वश्चतुर्थो भागः | मदोषस्यान्तः प्रदाषोन्तः । मदो- षान्तोऽन्तो यस्य स प्रदोषान्तः । प्रदोषान्तान्त इत्यर्थः । स सायंहोमस्य काल: । केषां- चित्पञ्चमीषष्ट्यौ नाडिके प्रदोषशब्देनोच्येते तदन्तो वाऽयं होमकालः ॥ ३८ ॥ संगवान्तः प्रातः ॥ ३३ ॥ दे० भा० - उपोदयं व्युषित उदिते वेत्युक्तो होमकाल: संगवान्तो भवति । अह्नः . प्रथमो यामः प्रातरित्युच्यते । द्वितीयो यामः संगवो भवति । संगच्छन्ति गावो वत्सैः सह यस्मिन्काले स काल: संगवो भवति । आ मध्याह्नाद्भवति । “ मध्यंदिने संगविनी- मायन्ति " ( ऐ० वा० १२ । ७ ) । उदित इति वचनादुदितमात्रे होमकालस्तस्या- तिक्रमे प्रायश्चित्तं स्यात्तस्मादा संगवान्त इति । आ संगवपरिसमाप्तेर्भवति । तस्यातिक्रमे प्रायश्चित्तं वक्ष्यति ॥ ३९ ॥ ना० वृ० – यस्मिन्काले गावो वत्सैः सहाऽऽसते सं संगवः कालः | तावत्पर्यन्तं प्रातर्होमकालः । केचिदह्वस्तृतीयो भाग: संगव इत्याहुः । तदन्तः संगवान्तो दश नाडिका इत्यर्थः । अस्तमित उदिते च विहिते होम एतावति काले क्रियमाणेऽतीत. कालो न भवतीति पुनः कालविधिः ॥ ३९ ॥ तमतिनीय चतुर्गृहीतमाज्यं जुहुयात् ॥ ४० ॥ 6 दे० भा० – तमतिनीय तं कालं प्रदोषं संगवं वाऽतिनीयातिक्रम्य चतुर्गृहीतमाज्यं जुहुयात् । स्रुषेण प्राप्तं चतुर्गृहीतमित्याह । ऐष्टिके कर्मणि प्रकृतमाज्यमस्ति तस्मात्त नाऽऽज्यमिति नोच्यते " स्थात्याः स्रुषेणाऽऽदाय ( आश्वायन श्रौ० सू० १ ।