पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | कुर्याच्चेत्ततः समोषामुमिति द्वितीयया विभक्त्या यो यजमानस्य द्वेष्टा यो द्वेष्ठि किमसौ वर्धते किमसौ जानातीति यो द्वेष्टिन प्रशंसति स द्वेष्टा । तं द्वेष्टारमुदाहरेत् । " समोषा- मुकम् " समोष शिरिण्डिकामित्युदाहरेत् । उदाहरेदिति वचनात्तूपांशुत्त्रं न प्राप्नोत्युच्चै- रुदाहरणं भवति ॥ ३३ ॥ ना० दृ० अधिश्रितमग्निहोत्रद्रव्यं यदि शब्दयेत्तदा तद्रव्यं समोषामुमित्यभिमन्त्रयेत । अमुश्त्यिस्य स्थाने यजमानद्वेष्टुर्नाम निर्दिशेत् । अधिश्रितविशेषणं तत्रैवास्य संभवाच्छा- स्वान्तरदर्शनाच्च ॥ ३३ ॥ विष्यन्दमानं मही द्यौः पृथिवी च न इत्याहवनीयस्य भस्मान्ते निनयेत् ॥ ३४ ॥ दे० भा० – विष्यन्दमानं यद्यधिकृतं विष्यन्दति विविधं स्यन्दति सर्वतो विष्यन्द - मानमग्निहोत्रं यत्स्थास्यामत्र शिष्टमिति तन्मही द्यौः पृथिवी च न इत्येतयर्चाऽऽहनीयस्य भस्मान्ते निनयेत् ॥ ३४ ॥ ना० वृ० – उद्भासिते विष्यन्दित एतद्भवति । अधिश्रिते तु ब्राह्मणोक्तमेव ॥ ३४॥ सांनाय्यवद्वीभत्से ॥ ३५ ॥ - दे० मा० – केशादिभिर्बीभत्से सांनाय्येन तुल्यं सांनाय्यवत् । यथा सांना केशा- दिभिर्बीभत्सं प्रजापतिरित्यनयर्चा मध्यमेन पलाशपर्णेनाप्सु जुहुयाद्वल्मीकवपायां वा । एव- मग्निहोत्रद्रव्यं बीभत्सं यदि भवति सांगाय्यत्रदेव जुहुयात् । ततोऽन्येनाग्निहोत्रं जुहु यात् ॥ ३५ ॥ ना० १० – प्रजापत इत्यनयर्चा मध्यमेन पलाशपर्णेन वल्मीके जुहुयादि- व्यर्थः ॥ ३५ ॥ अभिदृष्टे मित्रो जनान्यातयति ब्रुवाण इति समिदाधानम् ॥ ३६ ॥ दे० भा० - अग्निहोत्रद्रव्ये संस्कृते यदि वर्षधारा अभिपतन्ति तदाऽभिवृष्टं भवति । तस्मिन्नभिवृष्टे सत्यग्निहोत्रद्रव्ये मित्रो जनान्यातयति ब्रुवाग इत्यनयर्चा समिदाधानं भवति । आहवनीये नित्यस्य समिदावानमन्त्रस्य स्थाने समानजातीयन्यायेन | यजमानस्तु नित्यमेवाऽऽधानमन्त्रमाह । समिदाधानपक्षो विधिर्भवति । शेषं समानम् | अभिवृष्ट एता- वानेत्र विकारः || ३६ ॥ ना० ३० अधिकेयं समित् । उत्तराहुत्यर्थस्नाप्पभिवर्षणसंभवात् । अतः पूर्वाहुल्या प्राराप्यस्मिन्निमित्ने सति निमित्तानन्तरं समिदन्तरमाधेयमेत्र॥ ३६ ॥