पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका एव भवति नाग्निहोत्रद्रव्यसंस्कारः सर्पिष इति चोदितं स्यात् । अग्निहोत्रसंस्कारो वा प्रामोति । शब्दान्तरेण चोदितत्वादग्निहोत्रमंस्कारो वा क्रियते । अग्निहोत्रसंस्कारेण संस्कृत्य भिन्नं सिक्कं वाऽभिमन्त्रयेत तस्मादुच्यते ॥ २९ ॥ ना० वृ०- ० – स्थास्यामपि यदा नास्ति तदाऽऽज्यं गृहीत्वा तस्य यथासंभवं संस्कारं कृत्वोन्नीय तेन जुहुयात् ॥ २९ ॥ एतदा होमाद्वारुणीं जपित्वा वारुण्या जुहुयात् ॥ ३० ॥ - दे० भा० – इमं मे वरुण श्रुवीतिजपेत् । ततोऽनन्तरं वारुणा च जुहुयात् । तत्त्त्रा यामीत्येतयर्चा जुहुयात् । नित्यस्य होममन्त्रस्योद्धारो : भवति । अनेन ह्यमान एतद्भवति ॥ ३० ॥ ना० वृ० -- एतदा होमाद्वयोरपि होमयोः प्रधानत्वाद्धोमयपर्यन्तमेतदेव प्रायश्चित्तं भवति । स्रुवपूर्णस्कन्दने पादोन स्रुवपूर्ण स्कन्दने च प्रायश्चित्तम् । ततो न्यूनरकन्दने न प्रायश्चित्तम् । अर्धस्त्रवपूरणे न भवति ततोऽधिके भवति । वारुणी जपित्रा वारुण्या जुहुयात्. । विशेषाभावाद्ये केचन वारुण्यौ भवतः । पूर्वहोमे प्राकृतस्य मन्त्रस्यापत्रादो वारुणी ॥ ३० ॥ अनशनमाऽन्यस्माद्धोमकालात् ॥ ३१ ॥ दे० भा० –यजमानस्य पत्न्याश्चानशनमभोजनं कियन्तं कालमाऽन्यस्माद्धोमकालात् । सायंहोमे चेदा प्रातहमिकालात्प्रातर्होमे चेदा सायंहोमकाल नाश्नीयात् ॥ ३१ ॥ ना० वृ० - यजमानस्येदं न होमकर्तुः । वारुणीजपो वारुणी होमो ऽनशन मित्येतत्रयं शेषेण जुहुयादित्यत्र मात्रापचारहोमे पुनरुन्नीय होम आज्यहोमे च भवति ॥ ३१ ॥ पुनर्होमं च गाणगारिः ॥ ३२ ॥ दे० भा० - पुनर्होमं च गाणगारिराचार्यो मन्यते । तदानीमेत्र पुनरग्निहोत्रं हुत्वा ततोऽनन्तरमनशनं भवति । गाणगारिग्रहणात्सूत्रकारः पुनर्होमं न मन्यतेऽनशनमेव मन्यते ॥ ३२ ॥ - ना० ० – एतेष्वेव त्रिषु पक्षेषु गाणगारि: पुनर्होमं चेच्छति । आचार्यग्रहणं विकल्पार्थम् । पुनहमे पूर्व समाप्य पुनर्विहरणादि सबै क्रियते निमित्त प्रयोगावृत्तिवि धानात् ॥ ३२ ॥ अग्निहोत्रं शरशरायत्सभोषामुमिति द्वेष्टारमुदाहरेत् ॥ ३३ ॥ दे० भा० - अग्निहोत्रद्रव्यमधिश्रितं सच्छरशरायछन्द्रायमानं शरशरेति शब्दं -