पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमिहोत्रचन्द्रिका | । ना० वृ० – मर्यादायामयमाकारः । उत्तरत्र तत्रेतिवचनात् । दोहनवचनं पूर्वसूत्रे स्कन्दननिमित्तविशेषस्याविवक्षितत्वसूचनार्थम् । आदिग्रहणमधिश्रितेऽपि पयसि स्कन एतदेव प्रायश्चित्तं न ब्राह्मणोक्तम् । “ अधिश्रितं स्कन्दति वा विष्यन्दते वा " इति । इदं तु द्रव्यान्तरेषु भवति । विष्यन्दने तु पयस्यपीदमेव भत्रति विष्यन्दनेऽधिश्रितेऽन्य- स्यानाम्नानात् । तत्र यत्परिशिष्टमित्यादि द्रव्यान्तरेष्वपि साधारणमन्यस्यानाम्नानात् । उनी - माऽऽहवनीयं प्रतिहरणं प्राचीनहरणमित्युच्यते ॥ २५ ॥ मजापतेर्विश्वभृति तन्वं हुतमसीति तत्र स्कन्नाभिमर्शनम् ॥ २६ ॥ दे० भा० – प्रजापतेर्विश्वभूति तन्वं द्रुतमसीत्येतेन मन्त्रेण हूयमानस्कन्नस्याभिमर्श- नम् । तत्रेत्यधिकृते निर्दिश्यते । किमधिकृतं प्राचीनहरणमधिकृतम् ॥ २६ ॥ ना० बृ - इदमपि पयस्येव पूर्वेण संबन्धित्वात् । सत्रेति । प्राचीनहरण इत्यर्थः ॥ २६ ॥ शेषेण जुहुयात् ॥ २७ ॥ दे० भा० – शेषेण होमो न प्राप्नोति । कथं होमार्थमुन्नीतं स्कन्नं सद्धीनं भवति तदर्थमिदं शेषेण जुहुयादिति ॥ २७॥ ना० १० - अन्तरेणापि वचनं सर्वस्य वा प्रधानमात्रस्यैव वा पर्याप्ते शेषेणैव होमो युक्त उक्तत्वाद्द्रव्यस्य वचनमिदानी किमर्थम् । अयमभिप्रायः --अस्ति चेच्छेषः स च होमद्रव्यस्यापर्याप्तस्तथाऽपि शेषेणैव मात्राहीनेनापि जुहुयादिति वचनम् ॥ २७॥ पुनरुन्नीयाशेषे ॥ २८ ॥ दे० भा० – अशेषे पुनरुन्नीय जुहुयात् । सर्वस्याशेषादिदं नाऽऽरम्येत पुनरुन्नयनं न प्राप्नोति होमार्थमुन्नीतं स्कन्नमत इदमाह | यथाऽवदानशेष पुनरायतनादवदान मिति तत्रैव स्थाळीं स्रुचं चाऽऽहृत्योन्नयेत् । न तद्देगं निवृत्योन्नयेत् । यदि निवर्तयेत्स्वर्गाल्लका- उच्यवत इति श्रुतिः ॥ २८ ॥ - ना० वृ० – स्रुग्गतस्याशेषे पुनरुन्नीय जुहुयात् । पुनरुन्नयनेऽयं विशेषः प्राची - नहरणे यावति गते स्कन्नं भवति तावत्येवाध्वन्युपविश्य स्थालीमन्येन प्राचीं नीत्वा तत्रै बोपविष्ट उन्नयेत् । न स्वयं स्रुग्वा प्रत्यग्गच्छेत् ॥ २८ ॥ आज्यमशेषे ॥ २९ ॥ दे० भा० - स्थाल्यामप्यशेपे सत्याज्यं गार्हपत्ये विलाप्याऽऽनीय तदाज्यमुन्नीय जुहुयादशेषाधिकारे पुनरशेषवचनातस्थाल्यामप्यशेषमाज्यं भवति । आज्यग्रहणात्संस्कार