पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १६५ स्थालीभेदेन विक्षिप्तं स्कन्नं वाऽनेन मन्त्रेणाभिमन्त्र्याभिमन्त्रितं तदपोऽभ्यवहरेत् । तत्र मन्त्रः- समुद्रं वः महिणोमि स्वां योनिमपि गच्छत | अरिष्टा अस्माकं वीरा माये गावः सन्तु गोपतौ ॥ ५॥ स्कन्नपयोव्यतिरिक्तोऽयं विधिरिति वृत्तिकृत् । तत्राप्ययमेवेति भाष्यकृत् । दोहनाव स्थायामुपावसृष्टा गौश्चलन्तौ यदि तत्र भूमावीपक्षीरं पातयेत्तर्हि तत्क्षीरं हस्तेन स्पृष्ट्वाऽभिः मन्त्रयेत् । तत्र मन्त्रः --- यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः | पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्माये ॥ ६ ॥ इति प्रायश्चित्तप्रयोगः । तत्र यत्परिशिष्टं स्यात्तेन जुहुयात् ॥ २३ ॥ दे० भा० -- यत्तत्र परिशिष्टं स्यात्परिशिष्टं यद्भवति तेन जुहुयाद्यदि होमाय पर्याप्तं भवति तेन जुहुयात् ॥ २३ ॥ ना० ० - -अर्थप्राप्तस्य विधानं शेषकार्यस्यापर्याप्तावपि तेनैव होमः कर्तव्यः । शेषकार्यस्य भक्षादेर्लोप एव स्यात् । अप्रयोजकत्वाद्रव्यस्येति ॥ २३ ॥ अन्येन वाऽभ्यानीय ॥ २४ ॥ दे० भा० – यदि होमाय पर्याप्तं न भवेदन्येन पयसाऽभ्यानीयाभिपूर्य तु जुहु- यात् । वाशब्देऽक्रियमाणे परिशिष्टं यद्यपि होमाय पर्याप्तं तथाऽभ्यानयनं कर्तव्यमेव स्यात्, " यदुग्धं सर्वं सिक्तं स्याद्यथाऽन्यामाहूय तां दुग्ध्वा तेन जुहुयात् " इति ब्राह्म. णम् ॥ २४ ॥ . ना० वृ० – जुहुयादिति शेषः । होमस्यापर्याप्ताविदं भवति ॥ २४ ॥ एतदोहनाद्या प्राचीनहरणात् ॥ २५ ॥ दे० भा० - एतदन्तै प्रायश्चित्तं दोहनादि कृत्वाऽऽप्राचीनहरणात्समिधं स्रुचं चाध्यधि गार्हपत्यं हृत्वेति आ प्राचीनहरणादेतस्मात्प्राचीनहरणाद्भिनं सिक्तं चाभि- मन्त्र्यैतस्मिन्प्राप्त इदमुच्यते । दोहनादीति यदि नोच्यत एतदा प्राचीनहरणादित्युच्यमाने होमकर्माण प्रारब्ध एतस्मात्प्राचीनहरणादिति मर्यादा नाभिविधिः ॥ २५ ॥