पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | पुरुषो यः स्कन्दयेत्तस्मै तन्न भवति । तस्योक्तमेव भिन्नं सिक्तं वाऽभिमन्त्रयेत | समुद्रं व इति तत्रेति बचनाद्दो(दु)हत एतस्यापराध एतत्प्रायश्चित्तम् । दोहनादूर्ध्वं पुरुषापराधे पूर्वोक्तमेव ॥ २२ ॥ 7” ना० वृ० - दोहनावस्थायां पयसि (सः) स्कन्दने " यदद्य इत्यनेनाभिमृशन् स्कन्नमभिमन्त्रयेत " समुद्रं वः " इत्यनेनास्य तुल्यकार्यत्वात् । अत एव समुद्रं व इत्यत्राप्यभिमर्झनं कर्तव्यम् । स्कन्नमभिमन्त्रयेत । दोहनावस्थायां स्कन्न एतद्भवतीत्येता- यदत्र विवक्षितम् । इतराह्मणानुवादः । पयोलिङ्गत्वात्पयस्येवेदं भवति ॥ २२ ॥ अथ प्रायश्चित्तप्रयोगः | होमकर्ता यजमानो वा — अधिश्रितमग्निहोत्रद्रव्यं स्थाली मूलेन स्रवति चेत्तदभिमृश्य जपेत् । तत्र मन्त्रः --- गर्ने स्रवन्तमगदमकर्माग्निर्होता पृथिव्यन्तरिक्षम् । यतश्रुतदनावेव तन्नाभिप्रामोति निर्ऋर्ति परस्तात् ॥ १॥ अग्निहोत्री गौरुपावसृष्टा दुह्यमानोपविशेत्तर्हि तामभिमृश्येमं मन्त्रं ब्रूयात् - यस्माझीषा निषीदसि ततो नो अभयं कृषि | पशुत्रः सर्वान्गोपाय नमो रुद्राय मीळुषे ॥ २ ॥ अथैनामुत्थापयेत् । तत्र मन्त्रः -- उदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय च ॥ ३ ॥ अथास्या ऊधःसमीपे मुखसमीपे चोदकपात्रमुपोद्गृह्य तां दुग्ध्वा तत्पयो ब्राह्मणं पाय- येत् । तत्पयो येन ब्राह्मणेन प्राशितं तस्य गृहे तत्स्वामिकमन्नं नाश्नीयात्संवत्सरं याव- ज्जीवं वा । यद्यग्निहोत्री गौरुपावसर्गादिदोहनपर्यंन्तं शब्दं कुर्यात्तर्हि तस्यै यवसं दद्यात् । तत्र मन्त्र:- सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमध्ये विश्वदानीं पित्र शुद्धमुदकमाचरन्ती ॥ ४ ॥ अग्निहोत्रमुद्दिश्य दुग्धं पयः शोणितं दुह्येत्तर्हि तदुग्धं पात्रमध्ये गृहीत्वा गार्हपत्येऽग्नौ निरत्रशेषं दाहयित्वाऽन्येन पयसा जुहुयादिति ।