पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ना० ऋ० - एतदप्युपावसर्गादिदोहनपर्यन्तमेव । वयमानायै शब्द्यन्यै यवसो ( सं ) भक्षः ।। १९ ॥ शोणितं दुग्धं गार्हपत्ये संक्षाप्यान्येन जुहुयात् ॥ २० ॥ - दे० भा० – शोणितं दुग्धं भवति शोणिनं चेद्दुह्यति गौस्तद्दुग्धं गार्हपत्येऽग्नौ संक्षाप्य क्षामं कृत्वाऽन्येन पयसा जुहुयात् । ग र्हपत्यग्रहणान्न लौकिकेऽग्नावहोमार्थत्वा - लौकिके प्राप्ते गार्हपत्ये संक्षाप्य तेनैव जुहुयादिनि प्राप्तेऽन्येन जुहुयादित्युच्यते || २० || - ना० वृ० – संक्षाप्येति यावत्तन्निरवशेपं भवति तावदाहयित्वाऽन्येन द्रव्येण हुन यात् । अत्रान्यवचनात्पूर्वत्र तामन्यां वा पुनर्दुग्ध्वा पयसैव जुहुयात् । तत्रैवं ब्रह्मागम- अथैनां ब्राह्मणाय दद्यात् । इति । तदानं पूर्वोक्तेन सूत्रोक्तेन पयलः पानेन विक- स्यते । दानपक्षेऽन्यामेव दुग्ध्वा जुहुयात् ॥ २० ॥ भिन्नं सिक्तं वाऽभिमन्त्रयेत समुद्रं वः महिणोमि स्वां योनिमपि गच्छत i अरिष्टा अस्माकं वीरा मयि गावः सन्तु गोफ्ताविति ॥ २१ ।। दे० भा० – स्थाली भिद्यते सिच्यते वा पयसो यद्भिनं यच्च सिक्तं तदभिमृश्य मन्त्रं जपेत् । समुद्रं व इत्येतं यथासमाम्नातम् । सर्वद्रव्याणामेत्र विधिरावशषेच- नात् ॥ २१ ॥ ना० वृ० – स्थालीभेदेन विक्षिप्तं द्रव्यं भिन्नमित्युच्यते । विक्षेपात्तदुष्टं भवति 1 सिक्तमिति स्कन्नमुच्यते । स्कन्दने च यावत्स्कनं तावन्मात्रं दुष्टं भवति न पात्रगतं भिन्नसिक्तानि चेति वचनात् । तद्भिनं सिक्तं च समुद्रभित्यनेनामिमन्त्रयेत । ततोऽपोऽ भ्यदहरेयुः । “ अपोऽभ्यबहरेयुः” इत्यस्य वचनस्य प्रकरण विशेषाभावाद्व्यापन्नहवि मात्र मेत्रास्य विषय इति भेदन इदमेवास्मिन्प्रकरणे सर्वावस्थे पयस्यन्येषु द्रव्येषु च | स्कन्ने पुनः पयसि वक्ष्यमाणत्वादिदमभिमन्त्रणं द्रव्यान्तरेष्त्रेवेति स्थितम् ॥ २१ ॥ यस्याग्निहोच्युपावसृष्टा दुह्यमाना स्पन्देत सा यत्तत्र स्कन्द येत्तदभिमृश्य जपे - यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपयदापः | पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति || २२ ॥ दे० भा० – यस्य यजमानस्याग्निहोत्री गौर्योपावसृष्टा बरसेनो पसृष्टा दुह्यमाना यदि स्पन्देत चलेत्सा गौः स्पन्दना द्यध्ययस्तत्र दुह्यमानं यदि स्कन्दयेत्तदभिमृश्य जपेत् - यदद्य दुग्धमित्यनेन यथासमाम्नातेनः मन्त्रेण । यस्येति वचनाद्यद्यपि यजमानो जुहो- त्यन्योऽपि दोहनादि करोति । उपसृष्ठेतिवचनात्लवत्सा भवतीति दर्शयति । दोग्धा -