पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ अग्निहोत्रचन्द्रिका | त्तावतैव सिद्ध उपायसृष्टेतिवचन सवासा गौर्भवतीति दर्शयति । अवासाऽपि दुह्यते । चसोऽत्र नाधिकृतस्तस्मात्तामभिमन्त्रयेतेत्युच्यते ॥ १६ ॥ जा० वृ० – उपावसृष्टा दुह्यमानेत्युभयं विशेषणं वत्ससंसर्गाद्या दोहनपरिसमाप्तेरे- तस्य प्रापणार्थम् । यस्येति ब्राह्मणानुवादः ॥ १६ ॥ अथैनामुत्थाप येदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय चेति ॥ १७ ॥ दे० भा० – अभिमन्त्रणानन्तरं ग. मुत्थापयेत् - उदस्थादिति यथासमा नातेन मन्त्रेण । एनामिति पुनरुच्यते । एनामिति वीप्सार्था ( या ) द्वयोर्दुग्धेन वासेऽग्निहोत्रं जुहुया दिव्यत्र प्रयोजनम् ॥ १७ ॥ ० ना० वृ० – अथेति संबन्धार्थं योऽभिमन्त्रयते स एवोस्थापनमपि कुर्याद्यजमान एवो- भयं कुर्याद्धोमकर्ता वेत्येवमर्थम् ॥ १७ ॥ अथास्या ऊघसि च मुखे चोदपात्रमुपोह्य दुग्ध्वा ब्राह्मणं पाययेद्यस्या- • भोक्ष्यन्स्याद्यावज्जीवं संवत्सरं वा ॥ १८ ॥ दे० भा० – अथास्या उत्थापनादनन्तरमस्या गोरुधः स्तनाधिष्ठानं तस्मिन्नूवसि च मुखे चोदपात्रमुदकपात्रमुप समीप उद्गृह्य धारयित्वा ततो गां दुग्ध्वा ब्राह्मणं पाययेत्तेन जुहुयात् । ब्राह्मणपानमेव होम इत्यर्थः । यस्य ब्राह्मणस्यान्नममोक्ष्यं स्यादमोक्ष्यं भवति कियन्तं कालमुत यावज्जीवं संवत्सरं चा | अथशब्दोऽनुक्रमार्थः । अस्या इति वीप्सायां तदेव प्रयोजनम् । द्विश्चकारकरणांदपुनरुक्तं ब्राह्मणवाक्यत्वात् । दुग्ध्वा तत्पयो ब्राह्मणं पाययेदित्युक्तंम् । ब्राह्मणाय दद्यादिति यावज्जीवं संवत्सरं वेति संवत्सर विकल्पार्थो वाशब्दः ॥ १८ ॥ - ना० वृ० – ऊधः स्तनप्रदेश: | अग्निहोत्र्या ऊबसि च मुखे च समीप उदपात्र- मुठ्ठय ततस्तां दुग्ध्वा तत्पयो ब्राह्मणं पाययेत् । यस्यान्नं यावज्जीवं न भोक्ष्यमाणो भवेत् । य एतत्पयः पिबति तस्यान्नं यावजीवं नाश्रीयादित्यर्थः । संवत्सरं वा नाश्नीयात् । अत्र कालानाम्नानाद्यावज्जीव मित्युक्तवानाचार्यः । संवत्सरं व्रतं नात्येतीति सामान्यानुवादासं- वत्सरवचनम् । अथशब्दः पूर्ववत् ॥ १८ ॥ बाश्यमानावे यवसं प्रयच्छेत्सूयवसाद्भगवतीहि भूया इति ॥ १९ ॥ दे० भा० – उपावसृष्टा दुह्यमाना वा यदि वाश्येत गौः शब्दं करोति तत एत- द्भवत्यधिकारादन्यस्मिन्वा काले कश्यमानायै यत्रमं तृगं प्रयच्छेत् ।यवसं तृगानि भवन्ति । अद्धि नृणनिति मन्त्रे दर्शनात् ॥ १९ ॥