पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६१ अग्निहोत्रचन्द्रिका । च्यापन्नानि हवी`षि केचनस्वकीटपतङ्गैरन्यैर्वा वीभत्सैः ।। १३ ।। दॆ० भा०—व्यापत्तौ हि हविषामग्निहोत्रीयपयोयवाग्वादीनां हवी ५ षिकेशनरवकोटप- सङ्गैः संस्पृष्टानि व्यापन्नानि भवन्ति । केशा वालाश्छिन्नानि नखानि कीटोऽमेभ्यः क्रिमिर्यः पिण्डान्नच गच्छति सकीटो भवनि । पतङ्गः कृमिरेव यः पक्षी भवति । मक्षिका मशकांश्च बर्जयित्वैतैः संस्पृष्टानि व्यापन्नानि भवन्ति ॥ १३ ॥ - ना० वृ० – अन्यैर्वा वीभत्सै रिति वचनात्केशादिभिरपि बीभत्सरेवेति गम्यते । तेनाच्युतकेशनखसंसर्गो न दोपाय भवति । तथा कीटपतङ्गैरेवाप्यमेध्यनिवासिभिः संसर्गः । अन्यैर्वा बीभत्सैरित्यनेन च वमनादीन्युच्यन्ते । एतैः संसर्गे हवींषि व्यापना- नीत्यर्थः । बीभत्सैरित्येतावतैवास्मिन्नर्थे सिद्धे केशादीनां पृथग्ग्रहणं केशादिसंसर्गे स्मृत्युक्तः शुद्धयुपायो यः स हविषि न भवतीत्येवमर्थम् ॥ १३ ॥ सिक्तानि च ॥ १४ ॥ दे० भा० — यानि च सिक्तानि क्षरणं प्राप्तानि द्वन्यमाभ्यादि क्षरतीति यावत् ॥ १४ ॥ - ना० वृ० – सिक्तानि च हवींषि दुष्टानि भवन्ति । द्रद्वेषु क्षरणमिति ॥ १४ ॥ अग्निहोत्रमधिश्रितं स्रवदभिमन्त्रयेत गर्ने स्रवन्तमगदमकर्माग्निहोता पृथिव्य न्तरिक्षम् । यतश्श्रुतदभावेव तन्नाभिप्राप्नोति निरृति परस्तादिति ॥ १५ ॥ दे० भा०—अग्निहोत्रद्रव्यमधिश्रितं स्रवद्यदि स्थाली मूलतः स्रवेत्तदाऽभिमन्त्रयेत । तदग्निहोत्रद्रव्यमभिमृश्य मन्त्रयेत् । गर्भ स्त्रवन्तमिति यथासमाम्नातन मन्त्रेणाभिमृश्य यजेत ॥ १५ ॥ -ॐ ना० बृ० – अधिश्रितमग्निहोत्रद्रव्यं स्थालीमूलन यदि स्त्रवति तदाऽनेनाभिमन्त्रयेत गर्भ स्रवन्तमिति ॥ १५ ॥ यस्याग्निहोत्र्युपावसृष्टा दुह्यमानोपविशेत्तामभिमन्त्रयेत यस्मानीषा निषी- दसि ततो नो अभयं कृषि | पशुन्नः सर्वान्गोपाय नमो रुद्राय मीहळुष इति ॥ १६ ॥ दे० भा०—यस्य यजमानस्याग्निहोत्री गौरुपावसृष्टा वत्संन संसृष्टोपावसृष्टा भवत्यु पावसृष्टा दुह्यमाना यद्युपविशेत्ततस्तां गामभिमन्त्रयेताभिमृश्य मन्त्रं ब्रूयात् । आध्वर्यव मिदं कर्म भवति । यद्यपि स्त्रयमग्निहोत्रं जुहोति तथाऽध्यध्वर्युरेवैनत्कुर्यात् । दुह्यमानेत्ये-