पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० अग्निहोत्रचन्द्रिका | संतानं कृत्वाऽऽहवनीयमनुगमय्य तं पुनर्गार्हपत्याप्रणीयोपस्थाय रजतां स्वेत्यायग्निहोत्रं समाप्य तस्मिन्नेवाग्नौ पूर्णाहुतिं जुहुयात् । तत्रैवं संकल्पः अग्नीनां चक्रीवता व्यवायजनितप्रत्यवायेत्यादि पूर्ववत् । ६ अग्निहोत्र उपसन्ने शुना व्यवाये शुन: पदानि भस्मना पूरयेत् । ततो भस्मराज्यु- दकराज्यादि प्राग्वत् । अत्र गवातिक्रमणं नास्तीति भाष्यकृदस्तीति वृत्तिकृत् । वयं तु गवातिक्रमणं कार्यमित्युत्पश्यामः । ७ पुरुषेण व्यवाये गवातिक्रमणादि प्राग्वत् । ततस्तज्जनितप्रत्यवायेत्यादि पूर्ववत् । मस्मना पदप्रपूरणं तु शुन एव नान्यस्येति ज्ञेयम् | इति व्यवधानप्रायश्चित्तविशेषः ।