पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १५७ ताबन्ति चतुर्गृहीतानि गृहीत्वैकां समिधमाधाय सायंहोमं जुहुयादेवं प्रातर्होमः | होम- योस्त्वरा चेत्तदानीमेव प्रातर्होमं हुत्वा ततः सायंहोमं जुहुयात्ततः प्रातर्होमं चामावास्यां च कुर्यादित्यर्थः । आहिताग्निग्रहणादनाहिताग्नेरौपासन एप विधिर्न क्रियते । प्रमीयत इतिवचनात्समीपत उ ( प्रमीतस्य ) तो विधिजवतोऽपि न भवति । जीवति तु पुन - र्यथाकालमग्निहोत्रं जुहुयादिव्यन्येपामप्युक्तम् । जीवे चेपुनः काळ इति । पूर्वमेव पूर्वपक्षं हृत एव भवति ॥ १२ ॥ ना० वृ०–यद्याहिताग्नेरपरपक्षे मरणाशङ्का स्यात्तदा तस्य पक्षस्यावशिष्टा आहुतीः पक्षहोमन्यायेन हुत्वाऽमावास्यां च कृत्वा कर्मभिरेवमेनं पूर्वपक्षं नयेयुः । आहिताभित्र- हणमन्या अप्यनाहिताग्नेरपरपक्षाश्रिता या नित्याहुतयस्ताः सर्वा होतव्या इत्येवमर्थम् । एष पूर्वाधिकृतानां कालापकर्पो विधीयते । तेन जीवत एव मरणाशङ्कायामेतदिति गम्यते । मृतस्यानधिकारात् । अत एव पूर्वसूत्रेऽग्निहोत्रनामकं कर्मान्तरमि- व्युक्तम् ॥ १२ ॥ शम्यापरासदेशमनतिक्रान्ताम्नीनां प्रायश्चित्तप्रयोगः । यदा कदा बाऽऽहचनीयस्यैकदेशः समस्तो वा यद्यायतनादुमृप्यार्वा कूशभ्यापरासाद्वे- देर्बहिर्गच्छेत्तदा तम् – इदं त एकं पर ऊत एकं तृतीयेन ज्योतिषा संविशस्त्र | संवेशने तन्व३ श्वारुधि प्रियो देवानां परमे जनित्रे || ( ऋ० सं० ८ । १ । १८ ) । इत्यनयर्चाऽऽयतने संवपेत् । ततस्तस्मिन्नेवाग्नौ भूर्भुवः स्वः स्वाहा । प्रजापतय इदं न मम । इति स्रुवेगाऽऽज्यं जुहुयात् । अग्न्यन्तरे नैतत्प्रायश्चित्तम् । तत्र तृष्णीमायतने मक्षिप्य भूर्भुवः स्वः स्वाहा । प्रजापतय इदं न मम । इति होमः कर्तव्यः । बिस्फुलिङ्गमात्रस्य नैतत्प्रायश्चित्तम् । शम्यापरासदेशमनतिक्रान्तप्रायश्चित्तप्रयोगः । इति