पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | 6 , इतिकाराभावात् त्वमन्ने सप्रथा अस इत्यस्य पूर्वमन्त्रशपाशङ्कानिवृत्त्यर्थः । इष्टेरपि स एब बिहारः | प्रायश्चित्त उत्पन्ने पूर्वप्रवृत्ता अग्नयो नापवृज्यन्त इत्यस्यार्थस्य साधनार्थ- मुत्तरत्र वक्ष्यति “ अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणयेत् | " इति ॥ १० ॥ अध्वे प्रमीतस्याभिवान्यवत्सायाः पयसाऽग्निहोत्रं तूष्णीं सर्वहुतं जुहुयुरा समवायात् ॥ ११ ॥ -- दे० भा० - अध्वेऽध्वनि प्रवासे प्रम, तस्य यजमानस्य प्रागिष्टेरित्यनुवर्तते । अभि- वान्यो वत्सो यस्या गोः साऽभिवान्यवत्साऽन्यकत्समभिगताः तस्याः पयसाऽग्निहोत्रं सायं प्रातस्तूष्णीममन्त्रं सर्वद्दुतं जुहुयुः । द्वितीयाहुत्यां सर्वमत्र हूयते प्राशनार्थं नावशिष्यते । कियन्तं कालमा समवायादा यजमानेन समवायादा शरीराणामाहर्लोराहृतेषु शरीरेषु पाथिकृतीमिष्टिं कृत्वा ततः पितृमेधोक्तेन विवाने संस्कारं कुर्यात् । अथ समिधं धार- यति । “ उपरि हि देवेभ्यो धारयति " इति श्रुतेः । होमे प्रजापति ध्यायेत् । सर्बहु- तमितिवचनात्प्राशनं न क्रियते । प्राशनाभावाच्च निनयनमपि न विद्यते तत्संबन्धात् । उक्तो हि तत्संबन्धः “ भक्षयित्वाऽस्यात्ममपः स्रुचा निनयते " इति । पयसाऽग्निहोत्र - मितिवचनात्पयसः संस्कारादि यत्कर्म तदेव क्रियते । पयसः संस्कारात्प्राक्तनं कर्म नात्र विद्यते । परिसमूहनपर्युक्षणै धारा नियना हो मादी तत्वाद्धमान्तेऽषि पर्युक्षणं न क्रियते । अध्वर्यूष्णामप्युक्तम्-प्राशनोत्सेचन परिपेचनानि न विद्यते । ( आप०ौ० सू० १० । ) ॥ ११ ॥ ना० वृ० -पाथिकृतं कृत्वा तस्मिन्नेव बिहारे तूष्णीधर्मकमनिहोत्रं नाम कर्मा- न्तरमनेन विधीयते । तत्सर्वमग्निहोत्रकर्तव्यम् । सर्वहुतत्वं तु विशेषः । अतो. नात्र भक्षोऽस्ति । काटश्च सायं प्रातरेव | साङ्गं प्रधानम् । ष्ण प्रयाने प्रजापतिध्यानं कर्त- व्यम् । अभिवान्यवत्सा नामान्यवत्सेन दोहनीया | अभिवान्यो वत्सो यस्याः साऽभि बान्यबत्सा । अभिवान्योऽभियाचनीय इत्यर्थः । आ समवायादिति । आ शरीरस्याग्निसंब न्धादित्यर्थः ॥ ११ ॥ यद्याहिताग्निरपरपक्षे त्रयीयेताऽऽहुतिभिरेनं पूर्वपक्षं हरेयुः ॥ १२ ॥ दे० भा० – यदीत्यनित्यभावे । आहिता यस्याग्नयः स आहिताग्निः । स यद्यपर- पक्षे प्रमीयते न जीवतीति। अतिभिरेनं यजमानं पूर्वपक्षं शुरूपक्षं हरेयुर्नगेयुः कस्मिन्काले न जीततीसाशा भवति तदानीमेव तृष्णीं वित्या पक्षहोमन्यायेनाहानि