पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १५५ विधिः । इष्टिमध्ये तु तदेव तदेव तन्त्रमुपजीव्य तत्रैव पाथिकृती कर्तव्या । ग्रामिष्टेरिति वचनं पूर्वोक्ताया अपीष्टेः प्रागेवैते पदार्थाः कार्या इत्येवमर्थम् ॥ ७ ॥ भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्विचक्रम इति ॥ ८ ॥ दे० भा० - प्रागिष्टेरिति वचनाच्छुनो व्यवाये विशेषविक्रुिच्यते । प्राष्टेिः शुनः व्यवाये भस्मना शुनः पदं मार्गं प्रतिवपेत् । तस्मिन्मार्ग इदं विष्णुविचक्रम इत्येतयर्चा भस्म विकिरेत् । अस्मिन्कर्मणि न गामन्तरेणातिक्रमथेद्भस्नना प्रतिवपनमेव | यथेष समु च्चय इष्ट: स्यात् । भस्मना च शुनः पदं प्रतिवपेदिति ब्रूयात् । चकार समुच्चयार्थं कुर्यात् ॥ ८ ॥ 66 ना० दृ० - शुनो यानि पदानि तानि भस्मना प्रतिवरदित्यर्थः । प्रतिपदं मन्त्रा- वृत्तिः ॥ ८ ॥ गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या च संतनुयाचन्तुं तन्वत्र- जसो भानुमन्विहीति ॥ ९ ॥ दे० भा० — गार्हपत्याहवनीययोरन्तरमन्तराचं भस्मराजिर्मस्मरखोदकरा जिरुदकचारो- भयोर्भस्मराज्या च संतनुयात् । गार्हपत्यादारभ्य यावदाहवनीयं प्राप्नोति । तन्तुं तन्वन्र- जसो भानुमन्विहीत्येतयर्चा भस्मराजिं हरदेतेनैव मन्त्रेणोदकधारां हरेत् । प्रतिद्रव्यमावर्त- येन्मन्त्रम् । भस्मराज्योदकधारया च संतानं कुर्यात् । ॥ ९ ॥ ना० वृ० – प्रतिरा|जे मन्त्रावृत्तिः ॥ ९ ॥ - अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणीयोपतिष्ठेत । यदग्ने पूर्वप्रहितं पदं हि ते सूर्यस्य रश्मीनवाततान । यत्र रविष्ठामनुसंभवैतां सं नः सृज सुमत्या वाजवत्या | त्वमने सप्रथा असीति च ॥ १०॥ ३० भा० --तत आहवनीयमग्निमनुगमयेदुपशमयेत् । तत आहवनीयं पुनर्गार्हपत्या- त्प्रणीयोपतिष्ठेत प्रणीतमाहवनीयमुपतिष्ठते । यदग्न इत्यनेन मन्त्रेण यथासमा नातेन त्वमध्ने सप्रथा इत्येतयर्चा चोपतिष्ठेत | तत उपस्थानानन्तरमिष्टिः पाथिकृती क्रियते । चशग्द: समुच्चयार्थः । अत्राऽऽहवनीयस्यानुगमनं दृष्ट्वा ब्रूमः । आ प्रायश्चित्त समातेस्त एवाग्मयो भवन्तीति ॥ १० ॥

- ना० ० – राजिभ्यां संतानं कृत्वाऽऽहवनीयमनुगमयेत् । ततः प्रणीयोपतिष्ठेत । “ यदग्ने पूर्वम् ” “ त्वमग्ने समथा अति " इति च द्वाभ्याम् । चशब्दः पूर्वान्त