पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ अग्निहोत्रचन्द्रिका | अनुयोगं चकारः समुञ्चयार्थः कृतस्तस्मात्सर्वेषु निमित्तेषु समानप्रायश्चित्त मिष्टिः सा वक्ष्यते ॥ ४ ॥ अग्निः पथिकृत् ॥ ५ ॥ - तस्यामिष्टौ पथिकदग्निर्देवता ॥ ५ ॥ दे० ऋ० - २ ना० वृ० -तस्यामियं देवता | अग्निः पथिकद्गुणकः ॥ ५ ॥ वेत्था हि वेधो अध्वन आदेवानामपि पन्थामगन्मेति 1 अनड्वान्द- क्षिणा ॥ ६ ॥ दे० ० भा०— - वेत्था हि वेवो अध्वन आदेवानामपि पन्थामगन्मेति पथिकदग्र्या- उपानुवाक्ये भवतः। अनड्वान्दक्षिणा भवति । वोढुं समर्थोऽनङ्वान्भवति पञ्चवर्षो भवति । अस्या इष्टेः शेषं पौर्णमासेन दोषनिर्हरणार्थं प्रायश्चित्तं तच्चानन्तरं दोषात्कर्तव्यम् । इष्टिस्तु यस्मिन्कर्मणि चोदिता तत्कर्म परिसमाप्यान्ते कर्तव्यम् । कर्ममध्ये न क्रियते । “विवा एतस्य यज्ञश्छिद्यते यस्थ तन्त्रे प्रततेऽन्यतन्त्रं प्रतायते " इति श्रुतेः । तस्मादेवं क्रियते । आ प्रायश्चित्तसमाप्तेस्त एवम्झनो भवन्ति तत्संस्कारत्वात्प्रायश्चित्तस्य तदधिकृतं कर्म संस्क्रि- यते प्रायश्चित्तेन ॥ ६॥ ना० दृ० – शकटवहनसमर्थो बलीवोंऽनड्वान्दक्षिणा ॥ ६ ॥ व्यवाये त्वनग्निना गिष्टेगा॑मन्तरेणातिक्रमयेत् ॥ ७ ॥ दे० भा० – व्यवाये विशिष्टविधिरुच्यतेऽनग्निनाऽग्रिव्यवायं च ज्ञात्वाऽन्येन व्यवाये चक्रीवच्छ्वा पुरुषो भवति तेन व्यवाये प्रागिष्टे: प्राक्प्रायश्चित्तेष्टेर्गामन्तरेणातिकमयेद्वि- हारमध्ये न गां गमयेत् । येन मार्गेण पुरुषादयो गतास्तेन गां गमयित्वाऽनन्तर मिष्टिं कुर्यात्तुशब्दोऽधिकृयर्थः । बहूनि कर्माण्यधिकृतानि व्यत्राये तु विशेष उच्यते नान्येषु । अनभिनेति वचनादग्नित्र्यवायेषु न भवति नान्यो विशेषः । प्रागिष्टेरितिवचनादिष्टिश्च भवति विशेपविधिश्च प्रागिष्टे ख्यनुच्यमान इष्टेरपवादः स्यात् ॥ ७ ॥ - ना० दृ० – अग्निचक्रीवच्छ्वपुरुषवाय इष्टिक्वा । तत्राविर्जितैरन्यैर्व्यवाये गवा- तिक्रमणं भस्म राज्युकराजिभ्यां संतानमनुगमयित्वा प्रणयनमुपस्थानमिति विशेषः । श्वव्यवाथे त्वयमध्यपरो विशेषः भस्मता शुनः पदं प्रतिवत् " इति । एते पदार्था निमित्तानन्तरमेव कर्तव्याः । ततो वर्तमानं कर्म समाप्येष्टिः कर्तव्या | दर्विहोममध्य एष